________________
१८०
श्रीगौतमीयकाव्यं
इत्थं प्रागुक्तप्रकारेण संशयस्य जीवविषयकसन्देहस्य घातकानि विनाशकानि वीरप्रभोः वर्द्धमानस्वामिनो वचनानि आपीय सादरं ३ श्रुत्वा, तथा इहास्मिन् वीरप्रभौ सर्वज्ञत्वं सर्वज्ञभावमधिगत्य विज्ञाय,
च पुनरस्मिन्नेव प्रभौ जगतामीशत्वं विश्वेश्वरत्वमालोक्य दृष्ट्वा, मिथ्यात्वेन मिथ्यात्वोदयेन यो मोहो मौढ्यमविवेकित्वमिति यावत् , तेन ६ उज्झितो मुक्तो मिथ्यात्वोदयजनितमूढत्वविमुक्त इत्यर्थः । तथा बाणैः पञ्चभित्रछात्राणां शिष्याणां शतैः परिवृतो वेष्टितः छात्रपञ्च शतीसहित इत्यर्थः । एवं विधोऽसौ गौतम इन्द्रभूतिः सर्वविरति ९ सर्वविरत्याख्यं चारित्रं चरणं प्रविवेश प्रविशति स । भागवती दीक्षां जग्राहेत्यर्थः । अत एव कीहशोऽसौ गौतमः-तीर्थाग्रणी तीर्थे चतुर्विधसोऽग्रणीVख्यो, भगवता दीक्षां दत्त्वा प्रथमगणधर १२ त्वेन स्थापितत्वादिति भावः । आपीयेति । आपूर्वात् 'पीङ् पाने
ऽस्मात् क्त्वाप्रत्ययस्तस्य ल्यबादेशः । बाणैरिति । मदनस्य पञ्च बाणा सन्ति, ततो बाणशब्देनाऽत्र पञ्चेति सङ्ख्या परिग्राह्येति । इदं १५ शार्दूलविक्रीडितवृत्तम् । एतल्लक्षणं तु प्रागुक्तमेवेति ॥ ८१ ॥ इति कविरूपचन्द्रविरचिते श्रीगौतमीयमहाकाव्ये गौतमस
संशयच्छेदानन्तरं प्रवज्याग्रहणवर्णनो नाम १८
सप्तमः सर्गः ॥७॥ इति स्पष्टम् । इति श्रीगौतमीयप्रकाशाख्यायां गौतमीयमहाकाव्यव्याख्यायां
सप्तमः सर्गः ॥ ७ ॥ इति प्रथमगणधरवादः ॥१॥
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org