________________
गौतमीयप्रकाशाख्यटीकया सहितम् ।
१७९
.
इत्येवं भगवान् , इन्द्रभूतेः संशयं निराकृत्य पुनरपि प्रागुक्तं सर्वमेवार्थे द्रढयति
प्रतीत्य मयि सार्वत्यं सत्यं मन्यस्व मद्वचः।
रागद्वेषभयातीतो न ह्यसत्यं प्रभाषते ॥ ८०॥ हे गौतम ! मयि मद्विषये सार्वश्यं सर्वज्ञत्वं प्रतीत्य सर्वज्ञोऽयमिति प्रतीतिं विधाय मद्वचो मदीयं वचनं सत्यमवितथं त्वं मन्यख ६ जानीहि । कुत इत्याह-रागेत्यादि । हि यतो रागः प्रीतिवृषोऽप्रीतिर्भयं साध्वसं तानि रागद्वेषभयानि अतीतोऽतिक्रान्तः पुमान् असत्यमऽनृतवाक्यं न प्रभाषते न ब्रवीति, ईदृशश्चाहमित्यतो मद्वचनं ९ सत्यं मन्यखेत्यर्थः । अत्रैवं प्रयोगः-सर्वमपि मद्वचनं सत्यमनतिपाति च बोध्यम् , रागद्वेषभयाऽज्ञानरहितत्वात् इह यद्भयादिरहितस्य वचनं तत्सत्यं दृष्टं, यथा मार्गज्ञस्य भयरहितस्य प्रष्टरि रागद्वेषरहि-१२ तस्य मार्गोपदेशवचनं, तथा च मद्वचः, तस्मात्सत्यमनतिपाति चेति, मूले रागद्वेषभये इत्यत्राऽज्ञानपदमनुक्तमपि सङ्ग्राह्यं, प्रकृतोपयोगित्वात् ॥ ८० ॥
१५ तदेवं त्रिजगत्स्वरूपवेदिना भगवता श्रीमहावीरेण निःशेषपरप्रबोधनोपायकुशलतया निपुणयुक्तिप्रबन्धेन समासन्नपरमकल्याणस्येन्द्रभूतेः सर्वस्मिन्नपि संशये मूलच्छिन्ने सति किमसौ कृतवा-१८ नित्याहइत्थं संशयघातकानि वचनान्यापीय वीरप्रभोः
सर्वज्ञत्वमिहाधिगत्य जगतामीशत्वमालोक्य च। २१ बाणैश्छात्रशतैरसौ परिवृतो मिथ्यात्वमोहोज्झित
चारित्रं प्रविवेश सर्वविरतिं तीर्थाग्रणीौतमः ॥८१॥२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org