________________
१७८
श्रीगौतमीयकाव्यं
धर्मोऽवधारयितुं न युक्तः, शब्दोऽपि वस्तुविशेष एव, तत एवंभूतस्यैवार्थस्यायमभिधायको नैव वा ?, इत्थंभूतस्याऽर्थस्याऽयं प्रतिपादक ३इत्येवमेतद्धर्मस्याप्यवधारणमयुक्तमेव । कुत इत्याह-सर्वमित्यादि। यतो यस्मात्सर्वमपि वाच्यवाचकादिकं वस्तु खान्यपर्यायतः स्वपरपर्यायैः सर्वमयं सर्वात्मकमेव विद्यते सामान्यविवक्षयेत्यर्थः ।। ७८॥ ६ तथा विवक्षया केवलवपर्यायापेक्षया सर्व वस्तु असर्वमयमसर्वात्मक
मप्यस्ति । कीदृशमित्याह-केवलं विविक्तरूपं सर्वतो व्यावृत्तमित्यर्थः । तस्मात्सर्वेषामपि पदानां विवक्षया विवक्षावशतः सामा९न्यविशेषात्मा सामान्यमयो विशेषमयश्च पदार्थों युक्तः, न पुनरे
कान्तेन । इत्थंभूत एव अनित्थंभूत एव वेति कुत इत्याह
वस्तुन इत्यादि । यद्यस्मात्समः सर्वोऽपि वाच्यस्य वाचकस्य वस्तुनः १२ स्वभावः, पर्यायापेक्षया विश्वरूपो नानाविधो वर्तते, ततश्च सामान्यविवक्षायां घटशब्दः सर्वात्मकत्वात्सर्वेषामपि द्रव्यगुणक्रियाद्यर्थानां
वाचकः । विशेषविवक्षायां तु प्रतिनियतरूपत्वात् य एवास्येह पृथु१५ बुध्नोदराद्याकारवानों वाच्यतया रूढस्तस्यैव वाचकः, एवमन्योऽपि
शब्दः विशेषविवक्षया यो यत्र देशादौ यस्यार्थस्य वाचकतया रूढः स तस्य वाचको द्रष्टव्यः । सामान्यविवक्षया तु सर्वः सर्वस्य १८ वाचकः सर्व च सर्वस्य वाच्यमित्यनया दिशा. सकलं सुधिया भाव
नीयमिति । सामान्येत्यादि । सामान्यं च विशेषश्च सामान्यविशेषौ तौ आत्मा खरूपं यस्य सः । सम इति । अर्थसम्बन्धात् २१ समस्तार्थवाचकोऽयमत्र ग्राह्यो न तु तुल्यार्थकः ॥ ७९ ॥
१ सामान्यापेक्षया द्रव्यार्थिकनयस्य प्राधान्य विवक्षया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org