Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 301
________________ २६८ श्री गौतमीयकाव्यं वता तु नैवमुक्तं, किं तु साचात्स्वमुखेनैव तत्संशयापनोदः कृतोऽस्ति, तथापि कविना ग्रन्थविस्तरभया देवमुक्तमिति बोध्यम् ॥ ८ ॥ ३ अथ यदुक्तं प्राक् 'एकः सर्वगतो निष्क्रियश्चात्मे' त्यादि तदाश्रित्याह यन्मन्यसे ब्रह्मकृतः प्रकाशस्तनौ तनावस्ति मृषेति वाणी । ६ लक्षणैर्भेदि तदेव भिन्नं विशेषतश्चापि यथा घटादि ॥ ९ ॥ तार्य ! तनौ तनौ देहे देहे ब्रह्मणा एकेनात्मना कृतः प्रकाशो - Sस्तीति यत्त्वं मन्यसे जानासि तन्मननकारणभूता वाणी मृषा मिथ्या ९ वर्त्तते । आत्मनामानन्त्यादिति भावः । कथमित्याह — यद्वस्तुलक्षणै - दो विशेषोऽस्त्यस्येति भेदि भेदयुक्तमित्यर्थः, तद्भिन्नमेव भवेत् । चापीति समुचये, यथा विशेषतो लक्षणविशेषात् घटादि घटपटादि १२ वस्तु भिन्नमेवास्ति तथेत्यर्थः । अयं भावः -- न चास्माभिरेक आत्मा इष्यते किं तु लक्षणभेदादनन्ताः यत उपयोगलक्षणो जीवः । स चोपयोगो राग-द्वेष- कषाय-विषयाध्यवसायादिभिर्भिद्यमान उपाधिभे१५ दादानन्त्यं प्रतिपद्यते इत्यनन्ता जीवा लक्षणभेदाद् घटादिवदिति । तथा न सर्वगत आत्मा किं तु शरीरमात्र व्यापकस्तत्रैव तद्गुणोपलब्धेः, स्पर्शनवदिति । एवं न निष्क्रिय आत्मा भोक्तृत्वाद्देहवदित्याद्युप१८ लक्षणाद् ज्ञेयम् ॥ ९॥ 1 अन्यच्च २१ १३ सुखित्वदुःखित्वमुखा विभेदाः सर्वत्र सन्तीह पृथक् पृथग् यत् । तदात्मभेदात्परलोकयानं संभाव्यते किं न सदुक्तयुक्तया ! ॥ १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334