Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 305
________________ २७२ श्रीगौतमीयकाव्यं खरूपवेदवाक्येन मुक्तिलोपो मोक्षाभावो, ज्ञायते इति शेषः । तथा हीति निश्चितं, 'मुक्तिरूपा गुहा लोकस्य सुतरां दुर्विगाहा दुःप्रवेशा ३प्रवर्त्तते' इति वेदवाक्येन च मोक्षसिद्धिर्ज्ञायते, अत्र किं सत्यमिति संशयः, इह काव्यद्वयस्य भावार्थस्त्वयम्-हे प्रभास ! त्वमेवं मन्यसे निर्वाणमस्ति न वेति । अयं च संशयस्तव 'विरुद्धवेदपदश्रवणनिब६न्धनः । तानि चामूनि वेदपदानि 'जरामयं वा एतत्सर्वं यदग्निहोत्रं तथा 'सैषा गुहा दुरवगाहा' तथा 'द्वे ब्रह्मणी परमपरं च तत्र परं सत्यं ज्ञानमनन्तरं ब्रह्मेति । एतेषां चायमर्थः तव चेतसि वर्तते यदेतदग्नि९होत्रं तज्जरामर्यमेव यावज्जीवं कर्तव्यमिति । अग्निहोत्रक्रिया च भूतवधहेतुत्वाच्छबलरूपा, सा च वर्गफलैव स्यान्नाऽपवर्गफला, यावज्जीवमिति चोक्ते कालान्तरं नास्ति । यत्रापवर्गहेतुभूतक्रियान्तरारम्भः १२ स्यात् । तस्मात्साधनाभावान्मोक्षाभावस्ततश्चेत्यादिकानि केवलमोक्षाभाव प्रतिपादकानि । शेषाणि तु तदस्तित्वसूचकानि । तथा हि-गुहाऽत्र मुक्तिरूपा, सा च संसाराभिनन्दिनां दुरवगाहा दुःप्रवेशा, तथा परं १५ ब्रह्म सत्यं मोक्षः, अनन्तरं तु ब्रह्मज्ञानमिति, ततो मोक्षस्यास्तित्वं नास्तित्वं च वेदप्रतिपादितमवगम्य तव संशयस्तत्रैषां वेदपदानामर्थ त्वं न जानासि यतस्तेषामयमों वक्ष्यमाणलक्षण इति ॥ १६ ॥ १८ अथ मोक्षाभावप्रतिपादने प्रभासाध्यवसितां युक्तिमपि दूषयितुं भगवान् प्रकटयन्नाहदीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । १ सौगतमतप्रकल्पितमोक्षाभावप्रतिपादनपरां युक्तिं प्रकटयति भगवान् , तत् खण्डनार्थम् इत्यर्थः । २ अत्र 'द्वीपो यथा' इति काशीमुद्रितपाठश्चिन्त्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334