Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 290
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २५७ चेद्यदि सुख-दुःखानां सम्भव उत्पत्तिः खभावाद्भवेत् तदा सक्चन्दन-विषादीनां सुखादेहेतूनां कारणानां प्रत्यक्षतो दृश्यमानानामहेतुता स्यात् । अतोऽपि न पुण्य-पापकर्मव्यतिरिक्तः स्वभाव-३ पदार्थः ॥ ३६ ॥ अथ तात्पर्यमाह अत्यन्ताऽनुपलब्धेऽपि स्वभावे कर्तृता यदि। ६ तदा कर्मणि संसिद्धे कर्तृता किं निषिध्यते ? ॥ ३७॥ खपुष्पवत् अत्यन्तमनुपलब्धेऽपि खभावे यदि कर्तृता, भवता (खी)क्रियते इति शेषः, तदा संसिद्ध युक्त्यादिना सम्यग १ निष्पन्ने कर्मणि कर्तृता किं निषिध्यते ?, कथं नाङ्गीक्रियते इत्यर्थः ।। ३७ ॥ ननु कथं कर्मसिद्धिरित्याशङ्कयाह १२ कर्मसिद्धिस्त्वग्निभूतेर्वादे चैव प्रपञ्चिता । पुण्य-पापस्वभावाभ्यां वैशिष्ट्यमिह सम्मतम् ॥ ३८॥ च पुनः कर्मणः सिद्धिनिष्पत्तिस्तु अग्निभूतेर्द्वितीयगणधरस्य वादे १५ एव प्रपञ्चिता विस्तरेणोक्ताऽस्ति, अतोऽत्र पुनर्नोच्यते इति भावः । परं इहाऽस्मिन् प्रस्तावे पुण्य-पापस्वभावाभ्यां वैशिष्ट्यं विशिष्टत्वं युक्तत्वमित्यर्थः, सम्मतं सम्यङ्मननविषयीकृतमस्ति । अयं भावः-१८ प्राक् सामान्यतः कर्मसिद्धिरुक्ता, इह तु पुण्य-पापखभावयुक्तं कर्म कथितमिति विशेषः ॥ ३८ ॥ __ १ अत्र 'अत्यन्तानुलब्धेष्वपि' इति काशीमुद्रित पाठश्छन्दोऽनुरोधादखारस्याच्च प्रामादिकः । १७ गौ० का. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334