Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 282
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २४९ अवसरे एतेषामतिदुःखिततिर्यग्नराणामपि दुःखाद्विश्रान्तिर्विश्रामो विलोक्यते दृश्यते । अयमर्थः-येषामुत्कृष्टपापफलभोमस्तेषां संभवद्भिः सर्वैरपि प्रकारैर्दुःखेन भवितव्यं, नचैवमतिदुःखितानामपि ३ तिर्यगादीनां दृश्यते, आलोक-तरुच्छाया-शीतपवन-सरःकूपजलादिसुखस्यातिदुःखितेष्वपि तेषु दर्शनात् नरकप्रसिद्धैश्छेदनभेदनादिप्रकारैनिरन्तरं च दुःखस्यादर्शनात् । ततश्च न ते उत्कृष्टदुःखभोक्तारः। किंतु एतव्यतिरिक्ता एव नारकास्तादृशा ज्ञेयाः ॥ १९॥ पुनर्नारकास्तित्वे युक्तिमाहनारकैरुपमेयाः स्युर्ये चाऽप्यत्यन्तदुःखिताः। तिर्यञ्चो वा मनुष्या वा तस्मात्सन्तः कथं न ते? ॥२०॥ येऽपि च अत्यन्तदुःखितास्तिर्यञ्चो वा मनुष्या वा ते नारकैः उपमेया उपमातुं योग्याः स्युः, तस्माद्धेतोस्ते नारकाः कथं सन्तो १२ विद्यमाना न वर्तन्ते ?, सन्त एवेति भावः ॥ २० ॥ अमुमेवार्थ द्रढयति भावे भावोपमैव स्थान त्वभावेन ह्युचिता। १५ वाच्याः शुद्धपदेनेते नाभावा नारकास्ततः ॥ २१ ॥ भावे सद्भूते पदार्थे भावेन सद्भूतपदार्थेन उपमा एव उचिता योग्या स्यात् न त्वभावेन असद्भूतपदार्थेन खपुष्पादिना उपमा उचिता। १८ तथा एते नरकस्था जीवाः शुद्धं घटपटादिवत्केवलं यन्नारक इत्याकारकं पदं तेन वाच्या अभिधेयाः सन्ति, ततः कारणात् नारका अभावा अभावखरूपा, न किंतु भावरूपा एवेति भावः । पदद्वयाभिधेयस्य कस्यचिदर्थस्य वन्ध्यापुत्रादिवदभावत्वेऽपि शुद्धपदाभिधेयस्य २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334