Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 258
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २२५ चितस्तव संशयो विरुद्धवेदपदश्रुतिनिबन्धनत्वात् । तथाहि - 'स एष विगुणो विभुः न बध्यते संसरति वा न मुच्यते मोचयति वा, न वा एष बाह्यमभ्यन्तरं वा वेद' इत्यादीनि वेदपदानि, तथा ३ 'न ह वै सशरीरस्य प्रियाऽप्रिययोर पहतिरस्ति अशरीरं वा वसन्तं प्रियाऽप्रिये न स्पृशत' इत्यादीनि च । एतेषां चार्थं त्वं न जानासि, यतोऽयमेतदर्थस्तव चेतसि वर्तते, तद्यथा - स एषः अधिकृतो ६ जन्तुर्विगुणः सत्त्व-रज- स्तमोगुणरहितो विभुः सर्वगतो न बध्यते, पुण्य-पापाभ्यां न युज्यते इत्यर्थः । संसरति वा नेत्यनुवर्त्तते । न मुच्यते न कर्मणाऽभियुज्यते, बन्धस्यैवाभावात् । 'मोचयति वा नान्य' - ९ मित्यनेनाऽकर्तृकत्वमाह । न वा एष बाह्यमात्मभिन्नं महदहङ्कारादि अभ्यन्तरं निजखरूपमेव वा वेद विजानाति, प्रकृतिधर्मत्वाज्ज्ञानस्य, प्रकृतेश्चाऽचेतनत्वात् । ततश्चामूनि किल बन्ध-मोक्षाभावप्रतिपाद - १२ कानि । तथा न ह वै नैवेत्यर्थः सशरीरस्य प्रियाऽप्रिययोर पहतिरस्तीति बाह्या-ध्यात्मिकाऽनादिशरीर सन्तानयुक्तत्वात् सुख-दुःखयोर पहतिः, संसारिणो नास्तीत्यर्थः । अशरीरं वा वसन्तममूर्त्तमित्यर्थः । प्रिया - १५ प्रिये न स्पृशतः तत्कारणभूतस्य कर्मणोऽभावादित्यर्थः । अमूनि च बन्धमोक्षावभिधाय कानीत्यतः संशयः, तत्र स एष विगुणो विभुरित्यादीनां नाऽयमर्थः किन्तु वक्ष्यमाणलक्षण इति ॥ २७ ॥ उक्तमेवार्थं सङ्क्षेपतः सूत्रकृदाहबद्धो हि जीवो विवशोऽत्र विश्वे 'नानागतीर्याति पुनर्न मुक्तः । बद्धो न चाऽयं विगुणो न मुक्तो वेदोक्तभिर्वेति दधासि शङ्काम् ॥ २८ ॥ - १ बाह्यः अनादिशरीरसन्तानः - औदारिकादिः, आध्यात्मिकश्च कार्मणः । १५ गौ० का ० Jain Education International १८ २१ २३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334