Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 278
________________ गौतमीयप्रकाशाख्यटीकया सहितम् । २४५ द्वारेणैव । ततोऽतीन्द्रियमेव सत्यं प्रत्यक्षं ज्ञातव्यम्, तत्र जीवेन साक्षादेव वस्तुन उपलम्भादिति ॥ ८ ॥ अथामुमेवार्थं स्पष्टयन्नाह - उणादिको शब्दो यः स्वायात्यर्थाशिधातुजः । तद्वाच्य आत्मा प्रति तं गतं प्रत्यक्षमुच्यते ॥ ९ ॥ व्याप्तिरर्थो यस्य स व्यात्यर्थ एवंविधो योऽशिधातुः, 'अशूङ्ग ६ व्याप्तौ ' इत्याकारको धातुः, तस्माज्जातो व्यायर्थाऽशिधातुजः, उणादौ भव उणादिक, उणादिकप्रत्ययान्त इत्यर्थः । एवंविधो योऽक्षशब्दः स्यात्, उपलक्षणात् 'अक्षू व्याप्तौ' इति धातोः पचाद्यजन्तान्निष्पन्नो- ९ ऽक्षशब्दोऽपि बोध्यः, तस्याऽक्षशब्दस्य वाच्योऽभिधेय आत्मा तं प्रति गतं प्राप्तं प्रत्यक्षमुच्यते । ' अक्षो रथस्यावयवे व्यवहारे बिभीतके । प्राशके शकटे कर्षे ज्ञाने चात्मनि रावणे' इति हैमः १२ (अनेकार्थः) ॥ ९ ॥ शाब्दिकैरक्षिशब्देन प्रत्यक्षं यत्प्रसाधितम् । तत्तु चाक्षुषमेव स्यान्नं स्याद्वा रासनादिकम् ॥ १० ॥ १५ शब्द शब्दशास्त्रं विदन्ति अधीयते वा शाब्दिका वैयाकरणास्तैरक्ष्णोराभिमुख्यमित्यादिव्युत्पत्त्याऽक्षिशब्देन यत् प्रत्यक्षं पदं प्रसाधितं निष्पादितं तत्तु अर्थमाश्रित्य चक्षुषोर्भवं चाक्षुषं चक्षुरिन्द्रिय- १८ जन्यज्ञानविषयमेव प्रत्यक्षं स्यात् । वाशब्दः पुनरर्थः, रसनायां जिह्वायां भवं रासनं तदादिर्यस्य तत् रासनादिकं पुनः प्रत्यक्षं न २० १ इह 'न स्याद् रासनादिकम्' इति काशीमुद्रितः पाठश्छन्दोनुरोधेन खारस्यकवैकल्याच त्याज्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334