Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 279
________________ २४६ श्रीगौतमीयकाव्यं स्यात् , अक्षिशब्दस्य चक्षुःपर्यायत्वादिति भावः । प्रत्यक्षमित्यत्र 'लक्षणेनाभिप्रति- (२।१।१४) इत्यादिना समासः, 'प्रतिपरसम३ नुभ्योऽक्ष्णः ' (गणसूत्रम् ) इति टच् । 'यस्येति च' (६।४।१४८) इति लोपः ॥ १० ॥ प्रत्यक्षतानिवेशार्थमत्र या काऽपि कल्पना । ___ सा गौरवात्कथं ग्राह्या पूर्वोक्तौ लाघवं यदि ॥११॥ अत्र रासनादिप्रत्यक्षे प्रत्यक्षताया निवेशः स्थापनं तदर्थ या काऽपि कल्पनाऽन्या संभावना सा गौरवात्कथं ग्राह्या ? यदि पूर्वोक्तौ पूर्वसिन् ९ कथने लाघवं स्यात् । एतावता लाघवं परित्यज्य गौरवं न ग्राह्यमित्यर्थः ॥ ११ ॥ इन्द्रियाणि पराण्येवाऽऽत्मनस्तेन परोक्षता । १२ इन्द्रियोद्भवविज्ञाने गौणत्वं यत आत्मनः ॥ १२॥ इन्द्रियाणि आत्मनः सकाशात्पराणि अन्यान्येव सन्ति, तेन हेतुना इन्द्रियोद्भवविज्ञाने इन्द्रियजन्यज्ञाने परोक्षता वर्चते, नतु प्रत्यक्षत्व१५ मित्यर्थः, यतो यस्मात् इन्द्रियजन्यज्ञाने आत्मनो गौणत्वमप्रधानत्व. मस्ति, अत एव तस्य परोक्षत्वमिति भावः ॥ १२ ॥ द्वारोपचारतश्चैतदपि प्रत्यक्षमस्तु ते । १८ घृतमायुरिति ख्यातियतः सत्या प्रवर्तते ॥१३॥ .. च पुनराणि आत्माधिष्ठितदेहस्य द्वारभूतानि इन्द्रियाणि तेषा... मुपचार आत्मतयाऽऽरोपणं तस्माद्वारोपचारतस्ते तव मतेन एतदि२१न्द्रियजन्यज्ञानमपि प्रत्यक्षमस्तु, यतो यस्मादुपचारादेव 'घृतमायुः' १ अत्र 'आत्मोपचारतः' इति काशीमुद्रितश्चिन्त्यः । - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334