Book Title: Gautamiya Kavyam
Author(s): Rupchandra Gani, Kanakvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

Previous | Next

Page 269
________________ २३६ श्रीगौतमीयकाव्यं जानीहि मा केचिदिमे मनुष्याः सन्तीति पश्यानिमिषत्वमेषु ॥ ४३ ॥ ३ मनोज्ञो वेषो येषां ते मनोज्ञवेषास्तान् तथा चत्वारो निकाया निवासा येषां ते चतुर्निकायास्तान् भवनपत्यादिचतुर्विधान् इमान् देवान् अत्र प्रदेशे प्रत्यक्षतः प्रत्यक्षप्रमाणेन पश्य विलोकय, इमे केचिन्मनुष्याः सन्तीति मा जानीहि । कथमित्याह-एषु पुरःस्थितेषु अनिमिषत्वं निर्निमेषत्वं पश्य, मनुजा हि चक्षुर्निर्मेषोन्मेषक्रियावन्तो भवेयुः न चामी तथा, इति सिद्धं स्पष्टमेवैतेषु देवत्वमिति ९तात्पर्यम् ॥ ४३ ॥ अथैतद्दर्शनात्पूर्वं यः सन्देह आसीत् स तु युक्तो भवेदित्यपि न वाच्यं कुत इत्याह१२ ज्योतिष्कचक्रं विचरन्तमभ्रे __प्रत्यक्षतः पश्यसि किं न सूरे!। जानीहि मा किश्चिदिदं प्रमेयं १५ तेजोमयं वाऽप्मयमेव वास्ति ॥४४॥ हे सूरे ! हे विद्वन् ! अभ्रे आकाशे विचरन्तं ज्योतिष्कचक्र ज्योतिर्देवमण्डलं प्रत्यक्षतः किं न पश्यसि ? एतावता पश्यस्येवेत्यर्थः । १० एतेन प्रागपि सन्देहो न युक्त इत्यावेदितं, किं च इदं नभसि प्रत्य क्षतो दृश्यमानं प्रमातुं योग्यं प्रमेयं ज्ञेयं सूर्यबिम्बादिवस्तु तेजोमयं वह्निमयं वाऽथवा अपः स्वरूपमस्येति अप्मयं जलमयमेव वाऽस्तीति मा जानीहि । अयमों यदुत को जानाति किमेतद्भवेत् ? किं सूर्योऽमि२२मयो गोलश्चन्द्रस्तु अम्बुमयः खभावतः खच्छ इति सूर्यादीनां कथ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334