________________
हाम्।
गौतमीयप्रकाशाख्यटीकया सहितम् । वस्तुधर्मो न युक्तो हि अयमेव न वेत्ययम् । सर्व सर्वमयं चैव स्वान्यपर्यायतो यतः ॥ ७८॥ सर्व विवक्षयाऽसर्वमयमप्यस्ति केवलम् । युक्तः पदार्थः सामान्यविशेषात्मा विवक्षया । वस्तुनो विश्वरूपो यत्पर्यायापेक्षया समः ॥७९॥
षट्पदीयम् । चतुर्भिः कलापकम् । ६ हे गौतम ! यद्यस्मात्कारणात् एषां 'विज्ञानघन एवे'त्यादिपूर्वोक्तानां वेदपदानां योऽर्थो मया दर्शितस्तमर्थ न वेत्सि न जानासि, तत्तस्मा
कारणादेव जीवे संशयं करोषि । अथवा सर्वेषामशेषवेदपदानाम-९ प्यर्थ ध्रुवं निश्चितं त्वं न जानासि, यस्मात्सर्वेष्वपि वेदपदेषु विषये तवैवंभूतः संशयोऽस्तीति सम्बन्धः ॥ ७६ ॥ कथंभूत इत्याहअर्थ इत्यादि । किमेतेषां वेदपदानामर्थः शब्दो भवेत् ? यथा १२ भेरीपटहढक्कादीनां शब्दस्य शब्द एवार्थः ?, वा अथवा किं जातिर-- मीषामों यथा गोशब्दे समुच्चारिते गोजातिरवसीयते, यदि वा किं द्रव्यमेषामों यथा दण्डीत्यादिषु दण्डादिमद्रव्यं, किं वा शुक्लकृष्णा-१५ दीनामिव शुक्लादिगुण एतेषामर्थः ?, अथवा धावतीत्यादीनामिव धाव- . नादिक्रियाऽमीषामर्थः, यदि वा यद्धटादिशब्दे समुच्चारिते तदभिधेयार्थविषयं विज्ञानं भवद् दृश्यते तत्तेषामर्थः, किंवा घटशब्दे समु-१४ कीर्त्तिते पृथुबुध्नोदराद्याकारवान् घटलक्षणोऽर्थोऽनेनोक्तो न तु पटादिरित्येवं यो वस्तुभेदः प्रतीयते स एषामर्थः इति-अयं च संशयः, स चाऽयुक्तोऽन्याय्यश्च ॥ ७७ ॥ कथमित्याह-वस्त्वित्यादि । हि यस्मादऽयमेवास्ति वाऽथवाऽयं नैवास्ति इत्येवं कस्यापि वस्तुनो २२
१ अत्र 'यत् पर्यायविवक्षया समः' इति काशीमुद्रितपाठश्छन्दोऽनुरोधेन प्रामादिकः। २ अवसीयते इत्यध्याहार्यम् ।
१२ गौ० का.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org