Book Title: Ganittilakam Savrtuttikam
Author(s): Hiralal R Kapadia
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 88
________________ विरचितम् ] गुणकारविधिः स्थानं च रूपं च विभज्य कुर्यात् , सन्ताडनं वा खलु खण्डसञ्ज्ञम् ॥ अस्य व्याख्या-अत्राङ्कगुणन विधौ रीतिचतुष्टयमुक्तम् । तत्र गुण्यं-गुणनीयं २१५८६ षडशीत्यधिकपञ्चशती एकविंशतिसहस्राः । गुणकाख्यो राशिः ९६ षण्णवतिप्रभृतिकस्तस्याधो न्यस्य पश्चादनुलोमम्-अनुकूलमङ्करीत्या पूर्व षडशीतिषण्णवत्या गुणयित्वा । आहोशब्दो विकल्पार्थे । यद्वा विलोममङ्करीत्या ५ -प्रतिकूलमेकविंशतिः षण्णवत्या गुणयित्वा पश्चात् षण्णवतिमुत्सार्य-चालयित्वा क्रमश:-क्रमेणानुलोमगत्या पञ्चदशोपरि षण्णवतिकरणेन गुणयित्वा प्रतिलोमतश्चाष्टपञ्चाशदुपरि षण्णवत्या हन्यात्-गुणयेत् । उतशब्दोऽथवार्थः । तत्स्थमेव क्रियाविशेषणम् । तत्रैवानुलोमतः पडशीत्युपरिस्थयैवानुत्सारितप्रतिलोमतश्च एकविंशत्युपरिस्थया अचालितया षण्णवत्या सर्वमप्यकं हन्यात् । यद्वा १० स्थीयते गुण्याङ्कोपरि येन स स्थानशब्देन गुणकः षण्णवत्यादिकस्तं विभज्य त्रिधा द्वात्रिंशतं द्विधा अष्टचत्वारिंशतं वा कृत्वा वारत्रयं विधाकृताङ्केन द्वात्रिंशतावेलाद्वयं वाऽष्टचत्वारिंशता गुण्यस्य एकविंशतिप्रभृतिकस्याङ्कस्य त्रयस्यापि सन्ताडनं-गुणनं कुर्यात् । यद्वा रूपं चेति रूप्यते गुणकेन वृद्ध्यर्थं दृश्यते यः स रूपाख्योऽप्यङ्कराशिस्तं विभज्य यथा प्रागुक्तमेकविंशतिप्रभृतिमकं द्विधा १५ कृत्वा दशसहस्रात् त्रिनवत्यधिकसप्तशतीयुतान् स्थानद्वये विलिख्य वेलाद्वयं षण्णवत्या सन्ताडनं कुर्यात् । इति चतुर्थं यथावस्थानं गुणकं विभज्य यथा एकवारं नवाङ्केन एकविंशतिप्रभृतिकस्सैकवारं षट्वेन सन्ताडनं कुर्यात् परमेकाङ्कस्थानतयाऽधस्तनाङ्को नियोज्य मेलनीयस्तथा च न्यासः २१५८६ गु० ९ जातः १९४२७४ तथा एकविंशत्यादेरेव गु० ६ जातः १२९५१६ । अनयोरित्थमेकाधिक- २० तयान्यासे १९५३५१ मीलने च लब्धं २०७२२५६ । एवं यदा अङ्को गुणकस्तदा एकवारमङ्कद्वयेन एकवारमेकेनाङ्केन गुण्यं ताडयित्वा निर्दिष्टरीत्याऽङ्कद्वयात् स्थानाधिकतया गुणिताङ्कराशिद्वयं विलिख्य यथाभिमतं लब्धं भवतीत्येतदपि खण्डसञ्ज्ञकं करणम् । यथास्थानषण्णवत्यादिकं द्वाभ्यामधिकं कृत्वा अष्टनवत्या एकविंशतिप्रभृतिकं गुणयित्वा पश्चाद् द्विकगुणितैकविंशतिप्रभृतिकप्राग्गुणिताङ्कम-२५ ध्यात् पात्य यत् एतद् गुणकाधिककारिष(ख)ण्डसज्ञकं करणं स्थानं षण्णवतिलक्षणं विभज्य एकवेलं द्विनवत्या एकवेलं चतुर्भिरेकविंशतिप्रभृतिरकस्य सन्ताडनं कृत्वा अङ्कद्वययोगः कार्यः । एतद्गुणकलीनता कारिष(ख)ण्डसञ्ज्ञकं करणम् । १ उपजातिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214