Book Title: Ganittilakam Savrtuttikam
Author(s): Hiralal R Kapadia
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 152
________________ विरचितम् ] त्रैराशिकम् 'न्यासेनैवास्य व्याख्या, यथा{व मूव }। प्रथमाके "छेदनिघ्ने"त्यादिना द्विगुण एको द्वौ, एको मध्ये त्रयो द्विच्छेदाः, यथा {३}। द्वितीयाङ्के चतुर्गुणा द्वादश जाता अष्टचत्वारिंशत् , सैका एकोनपश्चाशत् , यथा { ४४} । तृतीयाङ्के त्रिगुणाः सप्त जाता एकविंशतिः, सैका द्वाविंशतिस्त्रिच्छेदा {७४} । इयं भागानुबन्धजातिः। ततः समिच्छया-अन्त्याङ्कद्वाविंशत्या फलं-मध्याङ्कमेकोनपञ्चाशतं ५ गुणयेत् । अष्टसप्तत्यधि(क)सहस्रं जातम् , यथा १०७८ । अनयोश्छेदौ त्रिचतुष्को निहत्येतिवचनादंशैरंशाश्छेदैश्छेदा गुण्या इति न्यायात् त्रिगुणाश्चत्वारो जाता द्वादश, प्रागुक्तसहस्राद्यङ्काधश्छेदतया योज्याः, यथा { २०१६} । अयं भाज्यो राशिः। आद्याङ्कस्य हरत्वात् "कृत्वा परीवर्तन"मित्यादिना उपरि द्वौ, अधस्त्रयः, यथा{3}| ततः कुलिशापवर्तनम्-द्वयोरर्धापवर्ते एकः, यथा{3} । द्वादशानाम- १० र्धापवर्ते षट् , यथा{ १०७६ }। ततः सगुणना-उपर्यङ्क एकगुणः स एव । अधत्रिगुणाः षट् जाता अष्टादश । अनेनोपर्यङ्कस्य भागे लब्धं एकोनषष्टिद्रम्माः, यथा {५९ } । उपरि शेषं पोडश, यथा {१६} । अनयोरर्धापवर्ते उपर्यष्टौ, अधो नव {:}। द्रम्मा न लभ्यन्ते, ततः पणानयनाय षोडशभिरष्टौ गुणनीयाः। जातमष्टाविंशत्यधि(क)शतम् , यथा { १२६ } । अस्य नवभिर्भागे लब्धं पणाश्चतुर्दश, १५ यथा { १४ }, शेषं द्वौ । पणा न लभ्यन्ते, अतः काकिण्यानयनाय द्वयोश्चतुर्मिगुणने भागं न लभते, अधोहरनवकत्वात् । ततः काकिणीस्थाने शून्यम् , यथा { } । ततः कपर्दानयनाय विंशत्या अष्टौ गुणिता जातं षष्ट्यधि(क)शतम् , १६० । अस्य नवभिर्भागे लब्धं वराटकाः सप्तदश, भागाः {} । आद्यन्तः(१) । ततो मूल्यन्यासे उदाहरणमाहकर्पूरस्य करीन्द्रदन्तमुसलच्छेदच्छविस्पर्धिनो गन्धाहूतमधुव्रतस्य हि पलं सार्धं यदि प्राप्यते । द्रम्मैः षोडशभिस्त्रिभागसहितैस्त्रैराशिकं वेत्सि चेद् विद्वन् ! द्रम्मशतेन तत् कति पलान्याप्यन्त इत्युच्यताम् ॥८८॥' {मूयद्र १०:}। “छेदनिने" त्यादिना आद्याङ्के सवर्णिते जाता एकोन-२५ पञ्चाशत् त्रिच्छेदाः, यथा {१७} । एवं द्वितीयाङ्के जाता द्विच्छेदास्त्रयः, यथा {३ }। ततः समिच्छया-शताङ्के कच्छेदेन गुणितास्त्रयो जाता त्रिशती, एकच्छेदगुणौ द्वौ तथैव, यथा {३०:}| आद्याङ्कस्य हरत्वात् "कृत्वा परीवर्तन"मित्यादिनोपरि त्रयः, अधश्चैकोनपञ्चाशत् । ततः सगुणना-त्रिगुणा त्रिशती जाता १ शार्दूलविक्रीडितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214