Book Title: Ganittilakam Savrtuttikam
Author(s): Hiralal R Kapadia
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 143
________________ गणिततिलकम् [श्रीपतिशत्पश्चविंशत्योमिथो पाते जाता पश्चाशदधि(क)द्वादशशती, यथा {१२५५} । अयं स्तम्भांशघातः । तस्य च हरत्वात् "कृत्वा परीवर्तन"मित्यादिना उपरि द्वादशशत्यादि, अधः पञ्चदश, यथा {१२५०} । कुलिशापवर्तनं यथा-प्राग्वद् दृश्यद्वादशानां त्रिभिरपवर्ते चत्वारः, पञ्चदशानां त्रिभिरपवर्ते पञ्च तथा पञ्चाश५दधि(क)द्वादशशतानां पञ्चविंशत्या अपवर्ते जाताः पञ्चाशत् , पञ्चविंशतेः पञ्चविंशत्याऽपवर्ते एकः, यथा {"५/६ } । ततः सङ्गणना-चतुर्गुणाः पञ्चाशत् जाता द्विशती, एकच्छेदगुणाः पञ्च त एव । पञ्चभिर्द्विशत्या भागे यथा {२०५} । लब्धं चत्वारिंशत् हस्ता वंशप्रमाणम् , यथा ४० ॥ अस्य घटना-चत्वारिंशत्ह(द्ध)स्तानां भाग एकोनविंशत्यङ्गुलान्यङ्गुलस्यैकः १० पञ्चभागः, व्यंशत्वात् त्रिगुणो जातं हस्तद्वयं नवाङ्गलानि अङ्गलस्य पञ्च भागास्त्रयः। अनेन चत्वारिंशतः पञ्चविंशतिपञ्चभागनिष्पन्ना अष्टहस्ता गुणिता एकोनविंशतिहस्ता अङ्गुलचतुष्कं अङ्गुलस्य पञ्च भागाश्चत्वारः । तथा चत्वारिंशतः पञ्चविंशतित्रयोदशभागनिष्पन्नहस्ता विंशतिरेकोनविंशत्यङ्गुलानि अङ्गुलस्य पञ्चभाग एकः । एषां योगे चत्वारिंशत् , यथा (४०)। एवं भिन्नभाग१५ दृश्यजातिः समाप्ता॥ भागमूलजातौ करणसूत्रं वृत्तम् दृश्यात् पयोराशिहताल्लवाप्तात् ___ खमूलसंवर्गयुताच मूलम् । समूलमर्धीकृतवर्गितं च __ भागाहतं स्यादिह यूथमानम् ॥ ७७॥' (व्याख्या-) दृश्यांशकात् पयोराशिभिश्चतुर्भिर्हतात्-चतुर्गुणात् लवैराप्तात्अंशैर्भक्तात् यस्य दृश्यस्य यन्मूलं तस्य संवर्गस्तद्गुणो वर्ग इति न्यायात् तेन युतात्र (च) “विषमसमे"त्यादिना मूलं पश्चात् स्वमूलं स्वमूलाङ्कयुतम् । एतेन दृश्यं द्वर्य त्रयं वा भवति मूलमपि द्विधा त्रिधा भवति लवा अपि द्विधा त्रिधा भवन्तीति २५ ज्ञेयम् । पश्चादीकृतं पश्चाद् वर्गितं-कृतवर्ग भागाहतं-यैर्भागैर्भागहाररीत्या भक्तं तैरेव भागैराहतं यूथमानं स्यात् ॥ अत्रोद्देशकवृत्ते उदाहरणमाहयूथाष्टांशस्य मूलं सजलजलधराकारमष्टादशघ्नं - शैलाग्रे सिन्धुराणां भ्रमति हि विगलद्दानधारार्द्रगण्डम् । १ उपजातिः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214