Book Title: Ganittilakam Savrtuttikam
Author(s): Hiralal R Kapadia
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 148
________________ विरचितम् ] हीन वर्ग जातिः ६५. एकच्छेदया ऊनिता" शच्छेदा" वित्यादिना छेद विनिमये यथा [ ३३ ] | एकगुणः स एव । पराङ्के नवगुणा चतुःषष्टिर्जाता षट्सप्तत्यधि ( क ) पञ्चशती नवच्छेदा, (यथा ) (५६) । समहरराशित्वाद् द्वात्रिंशदधि (क) शताष्टकात् षट्सप्तत्यधि (क) पञ्चशतपाते जाता षट्पञ्चाशदधि ( क ) द्विशती नवच्छेदा, यथा {२५१} | तलयोर्द्वयोः पदं - " विषमस मे " त्यादिना मूलं उपरि षोडश, अधश्च ५ त्रयः, यथा ( १ ) | अन्यत्र ऊनाङ्कः षोडश एकच्छेदाः । अन्यस्य प्रागुक्तद्विस्थस्य दलमष्टत्रिलक्षणं “अंशच्छेदा" वित्यादिना विनिमये यथा {' | } | त्रिगुणाः षोडश जाता अष्टचत्वारिंशत्; त्रिगुण एको जातास्त्रयः, यथा { } | एकगुणः पराङ्कः स एव । अनयोर्योगे जाताः षट्पञ्चाशत् त्रिच्छेदाः, यथा ( 9 ) | एतदन्यदलान्वितमृनं प्राग्लिखिततरपदस्य- पोडशकस्य समच्छे- 19 दत्वात् मध्ये क्षिप्तं जाता द्वासप्ततिस्त्रिच्छेदा, यथा ( 23 ) | अनयोस्त्रिभिरपवर्ते उपरि चतुर्विंशतिः, अधकः, यथा (२४) । भागैर्हरत्वात् " कृत्वा परीवर्तन"(१ मित्यादिना ) विपर्यस्तैस्त्रिषोडशभिर्विभक्तम् । त्रयाणां त्रिभिरपवर्ते एकः । चतुर्विंशतेस्त्रिभिरपवर्ते अष्टौ । एतत् कुलिशापवर्तनम्, यथा {६/१६ } | सङ्गुणनाषोडशगुणा अष्टौ अष्टाविंशत्यधि (क) शतम् । एकच्छेदगुण एकः स एव । तद्भक्त- १५ श्राङ्कः स एव लब्धः {१२८) | एतद् गजयूथप्रमाणम् ॥ अस्य घटना - अष्टाविंशत्यधि (क) शतस्याष्टमभागः षोडश, त्रिगुणोऽष्टचत्वारिंशत्, दलीकृतश्चतुर्विंशतिः, विष्कषोडशरहितो जाता अष्टौ । अयं स्वसङ्गुणोsष्टगुणा अष्टौ चतुःषष्टिः पर्वते क्रीडति दृष्टाश्च चतुःषष्टिः, यथा (६४) । अनयोर्योगेऽष्टाविंशत्यधि (क) शतम्, यथा ( २ ) । एवं हीनवर्गजातिः समाप्ता ॥ २० } । विपरीतोदेशके करणसूत्रं वृत्तमाह • गुणो हरो हरो गुणः, पदं कृतिः कृतिः पदम् । क्षयो धनं धनं क्षयः, प्रतीपके तु दृश्यते ॥ ८३ ॥' व्याख्या - यत् यत् पृच्छक उद्दिशति गुणनादिकं तत्तद्विपरीतं हरादिकं कार्यमिति विपरीतोद्देशकः । तत्र यो गुणकोऽङ्क उद्दिष्टः स हरो भागदायी कार्यः, २५ यो हरो भागदायी उद्दिष्टः स गुणकः, तथा योऽङ्कः पदं - मूलं स कृतिः - वर्गः, तथा योऽङ्कः कृतिः स पदं मूलं, तथा क्षयो-हीनो योऽङ्कः स धनं मध्यक्षेप्यस्तथा योऽङ्को धनं मध्यक्षेप्यः स क्षयो - हीनः कार्यः इति सम्बन्धः ॥ १ प्रमाणिका । ९ गणित • Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214