Book Title: Ganittilakam Savrtuttikam
Author(s): Hiralal R Kapadia
Publisher: Oriental Research Institute Vadodra

Previous | Next

Page 123
________________ ४० गणिततिलकम् [ श्रीपति छेदेन षोडशकेन प्राकू-छेदं एकं गुणयेत्, जाताः षोडश । प्राक्भागे द्वौ गुणयेत् जाता द्वात्रिंशत्, यथा {{3}। अधः स्थितमंशपञ्चकं पश्चाच्छ्रन्यरहितत्वाद् धनसञ्ज्ञं पूर्वलवे द्वात्रिंशलक्षणे विदध्यात् क्षिपेत् । जाता सप्तत्रिंशत् षोडशछेदा यथा ( ३३ ) | गुणको याति सर्वत्र । अस्याध एका काकिणी अस्य ५ चतुर्भागोपलक्षणा चतुष्कयुक्ता, यथा {3} | तलस्थितहरेण चतुर्भिः प्राक्छेदं षोडश गुणयेत् । जाता चतुःषष्टिः । तथा चतुर्भिर्भागं उपरिसप्तत्रिंशतं गुणयेत्, जातमष्टचत्वारिंशदधि (क) शतम् । तदस्य मध्ये पूर्वलवलक्षणे तलस्थमंशमेकं विदध्यात्- क्षिपेत्, जातमे कोन पश्चाशदधि (क) शतं चतुःषष्टिच्छेदम्, यथा ( १३: } | अस्याधो ऋणगताङ्कदर्शनाय ऊना कपर्दाङ्कन । कपर्दकच काकिणीविंशतिभा१० गोपलक्षणाय विंशतिमुक्त ऊनः स शून्यः स्थाप्यः, यथा ( ' । तलस्थितेन हरेण विंशत्या प्राक्छेदं चतुःषष्टिं गुणयेत्, जाता द्वादशशती अशीतिश्च । तथा विंशत्या प्राग्भागमे कोनपञ्चाशदधि (क) शतं गुणयेत्, जाता एकोनत्रिंशत् शतानि अशीतिश्च । अत्र ऋणमेकं पूर्वलवे दध्यात् अपनयेत्, यथा एकोनत्रिंशदादेरेकापनयने जातान्ये कोनत्रिंशत् शतानि एकोनाशीतिः द्वादशशत्यशीतिच्छेदाथ, १५ यथा {३३४ঃ} । अस्याधः कपर्दकस्य न्यूनचतुर्भागा, यथा । अत्र तलस्थितेन हरेण - प्राक्छेदं द्वादशशत्यशीतिं गुणयेत्, जाता विंशत्यधि (क) शत [ ए ] युक्ताः पञ्च सहस्राः । तथा चतुर्भिः प्राक्भाग मे कोनत्रिंशदेको नाशीतिं गुणयेत्, जाता एकादश सहस्रा नवशती षोडश । ऋणत्वादेशमधः स्थितमेकं पूर्वलवे एकादशादिरूपे अपनयेत्, जाताः पर्यन्ते पञ्चदश, यथा ( ११३३५ } | २० अनयोरङ्कयोः पञ्चभिरपवर्ते उपरि जातानि त्रयोविंशतिशतानि त्र्यशीतिः, अधो दशशतानि चतुर्विंशतिश्च यथा ( १३६४) । अत्राधोऽङ्केनोपर्यङ्कस्य भागे दत्ते लब्धं द्रम्मद्वयम्, शेष उपर्यङ्कः पञ्चत्रिंशदधि ( क ) त्रिशतरूपः । पणानयनाय षोडशभिर्गुण्या, जातं त्रिपञ्चाशत् षष्टिश्च यथा ( १३६: ) । अस्य दशचतुर्विंशत्या भागे लब्धं पञ्च पणाः, उपर्यङ्कः शेषश्चत्वारिंशदधि (क) द्विशतरूपः । कपर्दिकोन२५ काकिण्यानयनाय चतुर्गुणा जाता नवशती षष्टिश्च । भागो नास्तीति काकिणी - लब्धे शून्यम्, {० } । ततः कपर्दकानयनाय विंशत्या नवशती षष्टिश्च गुणिता जाता एकोनविंशतिसहस्रा द्विशती । अस्सा दशचतुर्विंशत्या भागे लब्धमष्टादश कपर्दाः, 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214