Book Title: Ganittilakam Savrtuttikam
Author(s): Hiralal R Kapadia
Publisher: Oriental Research Institute Vadodra
________________
५०
२५
गणित तिलकम्
अथ द्वितीयोदाहरणवृत्तमाह
उड्डीय त्रिगुणं पदं शुककुलात् क्षेत्रेषु शालेर्गतं तच्छेषोत्थदशांशकः फलभृतानाम्रद्रुमानाश्रितः । त्रिनं शेषपदं च पाशपतितं व्याधस्य चापद्वशे
"
3
विछन् ! कीरकुलप्रमाणमधुना तत् कथ्यतां वेत्सि चेत् ॥' न्यासेनैवास्य व्याख्या - { मूः | शे. |मू | दृ० } | अत्रान्यस्यानुक्तत्वात् शेषमूलं समीपदृश्यं शून्यं चतुर्गुणं शून्यमेव । तत्र स्वगुणमूलयुते त्रिगुणं मूलमेकस्त्रयः, तैर्युते शून्यस्थाने जातनवके क्षेपसदृशत्वात् शून्यस्य । तत्र नवानां मूलं त्रयः । तत्र पदयुते त्रिगुणं पदम् तेन युते जाताः षट् । दलिते - अर्धिते जातत्रिके १० निजताडिते - त्रिकगुणिते जातनव के । विलवरूपहते । तत्र लवो दशच्छेद एकः । रूप चैकच्छेदम् । ततो“ ंशच्छेदा" वित्यादिना छेदविनिमये {{-}} | (एकः) एक गुणस्तथैव, दशगुण एको जाता दश । एभ्यो लवैकपाते जाता नवच्छेदाश्च दश । ततो दृश्योत्थनवकस्यैकच्छेदस्य भागार्थं " कृत्वा परीवर्तन" मित्यादिन रूपशेषं नव अधः, उपरि च दश, यथा ( १९ | } | दृश्यद्वयोर्नवकयोर्नवभागापव१५ र्तने एकः, यथा {| } | ततः सङ्गणना- दशगुण एको जाता दश, एकगुणा एकच्छेदभक्ता अपि दशैव । ततः पुनर्विधिः प्रथमपदसमीपगतान्तस्य लवत्वात् । एते दशदृश्यं चतुर्गुणं जाताः चत्वारिंशत् । त्रिगुणपदमत्र त्रय एव । पदं स्वगुणंत्रिगुणं जाता नव । तेन युते जाता एकोनपञ्चाशत् । तत्र मूलं सप्त । पदयुते पत्रिकमेकस्तेन युते जातदशके दलिते जातपञ्चके निजताडिते-पञ्चकेनैव २० गुणिते जाता पञ्चविंशतिः । कीरकुलस्य प्रमाणमेवं स्यात् ।
अस्य घटना - पञ्चविंशतेर्मूलं पञ्च । त्रिगुणं पञ्चदश शालिक्षेत्रे गतम् । शेष दशकस्य दशांश एकगुणभूतद्रुमं गतः । अत्र शेषपदं त्रिकम्, तत् त्रिगुणं नवकं व्याधस्यापदि पतितम्, यथा {1} । एषां योगे पञ्चविंशतिः, यथा २५ । इयं शेषमूलसमीपस्थश्योत्थितत्वात् शेषमूलजातिः समाप्ता ॥
मूलाग्रभागजातिः
मूलाग्रभागजातौ करणसूत्रं वृत्तम्भागोनरूपविहृते खलु दृश्यमूले दृश्यात् पदार्धकरिणीसहितात् पदे च ।
१ शार्दूलविक्रीडितम् ।
Jain Education International
[ श्रीपति
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214