________________
विरचितम् ] गुणकारविधिः स्थानं च रूपं च विभज्य कुर्यात् , सन्ताडनं वा खलु खण्डसञ्ज्ञम् ॥
अस्य व्याख्या-अत्राङ्कगुणन विधौ रीतिचतुष्टयमुक्तम् । तत्र गुण्यं-गुणनीयं २१५८६ षडशीत्यधिकपञ्चशती एकविंशतिसहस्राः । गुणकाख्यो राशिः ९६ षण्णवतिप्रभृतिकस्तस्याधो न्यस्य पश्चादनुलोमम्-अनुकूलमङ्करीत्या पूर्व षडशीतिषण्णवत्या गुणयित्वा । आहोशब्दो विकल्पार्थे । यद्वा विलोममङ्करीत्या ५ -प्रतिकूलमेकविंशतिः षण्णवत्या गुणयित्वा पश्चात् षण्णवतिमुत्सार्य-चालयित्वा क्रमश:-क्रमेणानुलोमगत्या पञ्चदशोपरि षण्णवतिकरणेन गुणयित्वा प्रतिलोमतश्चाष्टपञ्चाशदुपरि षण्णवत्या हन्यात्-गुणयेत् । उतशब्दोऽथवार्थः । तत्स्थमेव क्रियाविशेषणम् । तत्रैवानुलोमतः पडशीत्युपरिस्थयैवानुत्सारितप्रतिलोमतश्च एकविंशत्युपरिस्थया अचालितया षण्णवत्या सर्वमप्यकं हन्यात् । यद्वा १० स्थीयते गुण्याङ्कोपरि येन स स्थानशब्देन गुणकः षण्णवत्यादिकस्तं विभज्य त्रिधा द्वात्रिंशतं द्विधा अष्टचत्वारिंशतं वा कृत्वा वारत्रयं विधाकृताङ्केन द्वात्रिंशतावेलाद्वयं वाऽष्टचत्वारिंशता गुण्यस्य एकविंशतिप्रभृतिकस्याङ्कस्य त्रयस्यापि सन्ताडनं-गुणनं कुर्यात् । यद्वा रूपं चेति रूप्यते गुणकेन वृद्ध्यर्थं दृश्यते यः स रूपाख्योऽप्यङ्कराशिस्तं विभज्य यथा प्रागुक्तमेकविंशतिप्रभृतिमकं द्विधा १५ कृत्वा दशसहस्रात् त्रिनवत्यधिकसप्तशतीयुतान् स्थानद्वये विलिख्य वेलाद्वयं षण्णवत्या सन्ताडनं कुर्यात् । इति चतुर्थं यथावस्थानं गुणकं विभज्य यथा एकवारं नवाङ्केन एकविंशतिप्रभृतिकस्सैकवारं षट्वेन सन्ताडनं कुर्यात् परमेकाङ्कस्थानतयाऽधस्तनाङ्को नियोज्य मेलनीयस्तथा च न्यासः २१५८६ गु० ९ जातः १९४२७४ तथा एकविंशत्यादेरेव गु० ६ जातः १२९५१६ । अनयोरित्थमेकाधिक- २० तयान्यासे १९५३५१ मीलने च लब्धं २०७२२५६ । एवं यदा अङ्को गुणकस्तदा एकवारमङ्कद्वयेन एकवारमेकेनाङ्केन गुण्यं ताडयित्वा निर्दिष्टरीत्याऽङ्कद्वयात् स्थानाधिकतया गुणिताङ्कराशिद्वयं विलिख्य यथाभिमतं लब्धं भवतीत्येतदपि खण्डसञ्ज्ञकं करणम् । यथास्थानषण्णवत्यादिकं द्वाभ्यामधिकं कृत्वा अष्टनवत्या एकविंशतिप्रभृतिकं गुणयित्वा पश्चाद् द्विकगुणितैकविंशतिप्रभृतिकप्राग्गुणिताङ्कम-२५ ध्यात् पात्य यत् एतद् गुणकाधिककारिष(ख)ण्डसज्ञकं करणं स्थानं षण्णवतिलक्षणं विभज्य एकवेलं द्विनवत्या एकवेलं चतुर्भिरेकविंशतिप्रभृतिरकस्य सन्ताडनं कृत्वा अङ्कद्वययोगः कार्यः । एतद्गुणकलीनता कारिष(ख)ण्डसञ्ज्ञकं करणम् ।
१ उपजातिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org