________________
or
गणिततिलकम् [श्रीपतिगुणकाङ्कस्य गुण्याङ्कस्य वा ष(ख)ण्डनात् यथार्थाभिधानं खण्डसज्ञकं करणम् ॥
अथो न्यासवृत्तद्वयमाहषडष्टौ पञ्चैकद्विकमपि हतं षण्णवतिभिः २१५८६ गुण ९६
___ भवेत् किं ब्रूहि द्राग गणक ! यदि जानासि गुणनम् । ५ तथा पश्चाष्टौ षट् त्रिनवतिमपि द्वित्रिगुणितान् ९३६८५ गु. ३२
त्रिसप्तद्विप्नांश्च प्रवद दशपश्चाष्टनवकान् ९८५१० गु. २७३ ॥' स्पष्टम् ॥ विश्वखसमभुजङ्गनवाकाः, शैलतुरङ्गसमाहतदेहाः ।
स्यात् स्फुटतारकवर्तुलमुक्ता-भूषणमत्र महेश्वरकण्ठे ॥ ३० व्याख्या-विश्वशब्देन त्रयोदश, खं-शून्यं, सप्त स्पष्टं, भुजङ्गशब्देनाष्टौ नागकुलानि, नव स्पष्टं, अर्का द्वादश । एतेऽङ्करीत्या पूर्व त्रयोदश तत्पश्चाच्छ्न्य मितिक्रमरूपया लिखिता गुण्याः। शैला:-सप्त कुलाचलाः, तुरङ्गाः सूर्यस्य सप्त प्रसिद्धाः, ततस्ताभ्यां जातः सप्तसप्तत्यङ्करूपाभ्यां समाहतो-गुणितो देहः-स्वरूपं येषां ते तथा । शेषं स्पष्टम् ॥ न्यासः १२९८७०१३ गु. ७७ । अथ क्रमात् लब्धाङ्क: १५ न्यासः विंशतिर्लक्षा द्वासप्ततिसहस्रा द्वे शते षट्पञ्चाशदधिके २०७२२५६ । एकोनत्रिंशल्लक्षाः सप्तनवतिसहस्रा नव शतानि विंशतिश्च । अङ्कतोऽपि २९९७९. २० । द्वे कोट्यौ अष्टषष्टिलक्षास्त्रिनवतिसहस्राः द्वे शते त्रिंशच्च २६८९३२३० एकोत्तरकोटिशतं १००००००००१ । एवं गुणकारविधिः समाप्तः ।।
भागहारविधिः२० भागहारे करणसूत्रं वृत्तम्
अपवर्त्य समेन राशिना द्वौ
हरभाज्यौ सति सम्भवे क्रमेण । विभजेत् प्रतिलोममस्य मार्गो
गणितज्ञानविशारदैः प्रदिष्टः॥ २५. व्याख्या-अपवर्त्य-खण्डित्वा समेन राशिना-द्वाभ्यां चतुर्भिरित्याद्यस माङ्केन, एकत्रिप्रभृतिविषमाङ्कनेत्यर्थः । द्वौ हरभाज्यौ हियते वृद्धि प्राप्त का प्रहाणिं नीयते येन स हरो-भागग्राहाकोऽङ्कस्तथा भाज्यते-भागं प्रदाप्यते योऽङ्कः स भाज्यस्ततो द्वन्द्वे हरभाज्यावधस्थितोपरितनस्थौ सति सम्भवे द्वि प्रभृतिखण्डनां यावती हरभाज्यौ सहेते तस्मिन् सामर्थे । एतेनाङ्क एक ...१ शिखरिणी । २ दोधकम् । ३ मालभारिणी, "साज्गगाः स्भर्या मालभारिणी' इति छन्दोऽनुशासने।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org