________________
विरचितम् ]
वर्गविधिः खण्डनां सहते तामेव खण्डनां द्वितीयो न सहते तदा न कार्यमित्यायातम् । क्रमेण प्रतिलोमम्-अङ्करीत्या प्रतिकूलम् , नानुलोममित्यर्थः । विभजेत्-भागं ग्राहयेत् । शेषं स्पष्टम् ॥ अत्रोद्देशकः
राशयो गुणिता जाताः, स्वगुणच्छेदभाजिताः।
कीदृशाः स्युः प्रचक्ष्वाशु, लक्षणं शिक्षितं यदि ॥' व्याख्या-प्रागुक्ता गुणिता राशयो विंशतिलक्षप्रभृतयः स्वगुणच्छेदेन प्राग् गुणकतां प्राप्तेन षण्णवत्यादिना भाजिताः-गृहीतभागाः कीदृशाः स्युरिति प्रचक्ष्व-वद। अत्र करणघटना-प्राग् गुणितो राशिरेकविंशतिलक्षा द्वासप्ततिसहस्रा द्वे शते षट्पञ्चाशदधिके । तदनु सति सम्भवे भागयोग्यतायां समेन राशिनाऽत्र चतुर्भिरपवर्त्य लिखितस्य पञ्चलक्षाष्टादशसहस्रचतुःषष्टिरूपस्य ५१८०६४ भाज्यस्य, तथा हारेण षण्णवतिलक्षणेन चतुर्भिरपवर्त्य चतुर्विंशतिभूतेन २४ भागे दत्ते लब्धं मूलप्रकृतिरेकविंशतिसहस्राः पञ्चशती षट्पञ्चाशदधिका । एतेन यदि भाज्यो राशिाभ्यामपवर्तितस्तदा हरराशिरपि द्वाभ्यां, यदा भाज्यश्चतुभिस्तदा हरराशिरपि चतुर्भिरेवापवर्तनीय इति तत्वम् । एवं एकोनत्रिंशल्लक्ष-१५ सप्तनवतिसहस्रनवशतविंशतिरूपस्य सति सम्भवे द्वाभ्यामपवर्तितस्य १४९८९६० : हारेण द्वात्रिंशता द्वाभ्यामपवर्त्य जातषोडशकेन भागे दत्ते लब्धं त्रिनवतिसहस्राः षट्शती पञ्चाशीतिश्च । एवं सर्वत्र परं प्रायेणापवर्तनं विनैव यथास्थितस्यैव भाज्यस्य यथारूपेण भागं ददते । अथ न्यासः-२६८९३२३० भा० २७३ । १००००००००१ भा० ७७। क्रमाल्लब्धं ९८५१०, १२९८७०१३ । २० एवं भागहारविधिः समाप्तः॥
वर्गविधिःअथ वर्गकरणसूत्रं साधं वृत्तम्वर्ग विधायान्त्यपदस्य शेषैः, पदैििनघ्नं गुणनीयमन्त्यम् । पदात् समुत्सार्य तथैव शेष-मुत्सारयेद् वर्गविधानहेतोः ॥ २' व्याख्या-अनुलोमगत्या योऽन्त्याङ्कः स प्रतिलोमगत्या आद्यस्तस्य द्वितीयोऽन्त्यो द्वितीयस्य तृतीयोऽन्त्य इति क्रमेण यः सर्वाङ्कानामन्त्यपदं त्रिषष्ट्यधिकशतस्य १६३ एकलक्षणं तस्य वर्ग सदशाङ्कद्विघातलक्षणं विधाय । यथाएकस्य वर्गे एककः तमेकं त्रिषष्ट्यधिकशतैककाधः {१६३} कृत्वा पश्चादुपरिस्थमे
१ अनुष्टुप् । २ उपजातिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org