________________
गणिततिलकम्
[ श्रीपतिककलक्षणमन्त्यं द्विनिघ्नं-द्विगुणं यथा - एको द्विगुणो द्वावेव जातस्ततः शेषैः पदैः षट्त्रिलक्षणैर्गुणनीयं क्रमेणेति शेषः । यथा द्वौ षड्गुणौ जातं १२ एते प्राग् लिखितत्रिषष्ट्यधिकशतैकस्याधोलिखितैकस्याध एकषट्कस्याधो द्वौ { } तथा द्वावन्त्यलक्षणौ त्रिगुणौ जाताः पट्, ते त्रिषष्ट्यधिकशतैकस्याधोलिखितद्वि५ काग्रे स्थाप्याः (१३३) । एतेन गुणितत्वादुक्तार्थत्वादन्त्यपदं द्विकलक्षणं विनष्टम् । ततः पदात् लिखितस्थानकात् शेषं त्रिषष्टिलक्षणं समुत्सार्य सञ्जातास्तनाङ्कस्य पविंशत्यधिकद्विशतलक्षणस्य एकाधिकस्थानकतया यथा ( ३३ ) विन्यस्य तथैव वर्ग विधायैतत्प्रागुक्तपदद्वयविधिं कृत्वा यथाऽत्र त्रिपश्यङ्के पट् अन्त्यपदं तस्य वर्ग षट्त्रिंशत् तं कृत्वा षड्विंशत्यधिकद्विशतोऽधः क्रमाद् विलिख्य {} ततः षट् १० अन्त्यपदं द्विनिघ्नं जाता द्वादश १२ । शेषं पदं त्रिकलक्षणं तेन गुंणनीयकृत्वा यथाद्वादश त्रिगुणाः षट्त्रिंशत् तां प्राग्दृष्टलिखिते क्रमेणा लेख्य {} एतेन पटकमन्त्यमुक्तार्थत्वाद् विनष्टम् । ततः शेषं त्रिलक्षणं वर्ग विधानहेतोरुत्सारयेत्, एकाधिकस्थानतया विन्यस्येदित्यर्थः। {'}}} । ततस्तथैव वर्ग विधायेति प्रागुक्तं कुर्यात् । यथा त्रयाणां वर्ग नव तं कृत्वा प्राग्दृष्टलिखितोपरिस्थत्रिकाधः {1}}} १५ ततोऽत्राशेषपदाभावादन्यो विधिर्नास्तीति प्रागु लिखिताङ्कयोजनायां त्रिषष्ट्यधिकशतैकवर्गे जाताः षड्विंशतिसहस्राः पञ्चशत्येकोनसप्ततिः २६५६९ इति । वर्गानयने करणद्वितीयमाह -
૧૨૬૬
इष्टोनयुक्तातिरिष्टवर्ग-युक्ता च
व्याख्या -- यथा पञ्चानां वर्गानयने स्थानद्वये पञ्चकं विलिख्य एकः पञ्चक २० इष्टेन-अभिरुचितेनाङ्केन द्विकलक्षणेन ऊनो जातास्त्रयः । एकस्य पञ्चकस्तेनेष्टेनाकृष्टेन द्विकेन युक्तस्ततो जाताः सप्त । ततस्तेन इष्टोऽनेन त्रिकलक्षणेन अङ्केन इष्टयुक्तस्य सप्तकलक्षणस्याहतिः - गुणना, यथा- त्रिगुणाः सप्त जाता एकविंशतिस्तत इष्टस्यैकपञ्चकादाकृष्टद्विकलक्षणस्य यो वर्गश्चतुष्कलक्षणस्तेन युक्ता यथा- एकविंशतिश्चतुर्युक्ता जाता पञ्चवर्गे पञ्चविंशतिः ॥
२५ अथ तृतीयं करणमाह
-
तुल्यद्विसमाहतिर्वा ॥ २१ ॥
व्याख्या - तुल्यौ - समानौ द्वौ अङ्कौ यथा द्वादश द्वादश अनयोर्मिथः समाहतिः - द्वादशभिः द्वादशगुणना, यथा चतुश्चत्वारिंशदधिकशतलक्षणाद् द्वादशाङ्कवर्गो जातः । अत्र वर्गविधिमनुपदिश्य वर्ग विधायेतिभणनमयुक्तं विमृश्य २ उपजातिः ।
१ ' गुणयित्वा' इति प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org