________________
विरचितम् ]
वर्गमूलम लीलावत्यां (परिकर्माष्टके श्लो.८) "समद्विघातः कृतिरुच्यतेऽथ, स्थाप्योऽन्त्यवर्गाद् द्विगुणान्त्यनिनाः" इत्यभिहितम् । तथा लीलावत्यां (परि० श्लो. ९) "खण्डद्वयस्याभिहतिर्द्विनिनी, तत्खण्डवगैक्ययुता कृतिर्वा" इति चतुर्थकरणमुक्तम् । तत्र पश्चानां वर्गे पश्चद्विखण्डा जाता एके त्रय एकतश्च द्वौ, तयोरभिहतिौं त्रिभिरभिहतौ जाताः षट् ६ । इयमभिहतिः षड्लक्षणा द्विनिनी जाता द्वादश ।। तथा खण्डयोर्द्वित्रिलक्षणयोः प्रागुक्तयोर्वौँ यौ चतुर्नवलक्षणौ तयोरैक्यं जातास्त्रयोदश, तेन युक्ता द्वादश रूपाभिहतिकृतिः पञ्चानां वर्गः स्यात् , एवं सर्वत्र । तथा त्रिशत्यां वर्गानयनाय चतुर्थ करणमाह-रूपादिद्विचयपदसमासो वा" । रूपमेकलक्षणमादिं कृत्वा पश्चाद् द्विचयपदानि द्वाभ्यां द्वाभ्यामधिकानि मण्डनीयानि । पश्चात् तेषां समास:-योगः कार्यः। यस्याङ्कस्य वर्गः कार्यः तत्स-१०
यानि अङ्कस्थानानि स्युरिति तत्त्वम् । यथा “पूर्व सदृशद्विराशिघातः" इत्येव रीतिः प्रायः प्रसिद्धा । अत्रोद्देशकः । उद्देशशब्दादुदाहरणोपलक्षणम् । तत्रैका श्लोकः
एकादीनां नवान्तानां, द्वादशानां कृतिं वद ।
द्वासप्ततेस्त्रिनवते-स्त्रिरसस्य शतस्य च ॥ २२॥ न्यासेनैवास्य व्याख्या-१।२३।४।५।६।७।८।९।१२।७२।९३ । चतुर्थपादो- १० क्तत्रिरसशब्देन त्रिषष्टिशतं च तस्य त्रिषष्ट्यधिकशत(१६३)स्य कृति-वर्ग वद. प्रश्नः। उत्तरम्-लब्धाङ्काः क्रमेण एकश्चत्वारो नव षोडश पञ्चविंशतिः षट्त्रिंशत् एकोनपश्चाशत् चतुष्पष्टिरेकाशीतिश्चतुश्चत्वारिंशदधिकं शतं पञ्च सहस्राः शतमेकं चतुरशीतिश्च अष्टौ सहस्राः षट्शती एकोनपञ्चाशच षड्विंशतिसहस्राः पञ्चशती एकोनसप्ततिश्च । अङ्कतोऽपि १।४।९।१६।२५।३६।४९।६४।८१।१४४। २० ५१८४१८६४९।२६५६९। एवं वर्गविधिः समाप्तः ॥
वर्गमूलम्अथास्य वर्गस्य यन्मूलमेकादिलक्षणं तदानयनाय करणसूत्रं वृत्तमाह
वर्ग विशोध्य विषमात् पदतः पदेन
स्थानच्युतद्विगुणितेन भजेच्च शेषम् । पतयां निवेश्य फलमस्य कृति विशोध्य
द्विघ्नेऽर्धिते कृतिपदं कृतिनो वदन्ति ॥ २३ ॥ व्याख्या-पडिशतिसहस्रपञ्चशतैकोनसप्ततिप्रभृति अङ्कस्य वर्गरूपस्य २६५६९ प्रतिलोमतो नवादितो विषमं समं इति गणनया यत्र विश्रामस्तस्माद् १-२ श्रीधरकृतायां त्रिशत्यामेकादशो नियमः। ३ अनुष्टुप् । ४ घसन्ततिलका ।
२ गणित.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org