________________
१०
गणिततिलकम्
[ श्रीपति
विषमात् पदतो यथाsत्र द्विलक्षणानय (न) स्याङ्कस्य वर्गो द्विकान्तः पतति तेन पदेनाधो न्यासस्तेन भागहेतुना पदशब्दोऽशकवाची, यथा- एकेन वर्ग एकस्य वर्ग एककं विशोध्य - पातयित्वा उपरि २६५६९ जातमङ्कराशिशेषं तेन पदेनैकलक्षणेन तमग्रे षट्काधः सञ्चारणीयत्वात् स्थानच्युतः स चासौ द्विगुणितश्च ५ स्थानच्युतद्विगुणितेन द्विकरूपेण भजेत् । तस्याधो न्यस्तयोग्याङ्केन भागं दद्यात्, यथा-द्विकस्याधः षट्कं नियोज्योपर्यङ्काद् द्वादशानां पाते उपरि पश्चचत्वारिंशदङ्कात् एकोनसप्ततिः {} । ततः तत् षट्कलक्षणं फलं लब्धं पङ्कयां अग्रेतनलिखितद्विकपङ्कौ द्विकाग्रतो निवेश्य यथा ( ३५६९ ) अस्य फलस्य षलक्षणस्य कृतिं-वर्गं षट्त्रिंशल्लक्षणमुपर्यङ्कात् पञ्चचत्वारिंशतो विशोध्य जातानि नव १० शतानि एकोनसप्ततिः ९६९ । ततस्तेन पदेन षट्कलक्षणेनाग्रे उपसर्पिणीयत्वात् स्थानच्युतेन द्विगुणितेन द्वादशानां प्राप्तेन द्विकमध्ये एकयोजनया सञ्जाता द्वात्रिंशताऽधः कृतभागयोग्याङ्केन शेषं प्रागुक्तं भजेत् यथास्त्र द्वात्रिंशतोऽधस्त्रिकं न्यस्य षण्णवतेः पातस्ततस्तत् त्रिकं फलं लब्धं पङ्कयां द्वात्रिंशदग्रे निवि (वे ) श्य कृत्वा अस्य त्रिकस्य कृतिं - वर्गं नवकलक्षणं विशोध्य - निर्गम्याधस्तनाङ्कमध्ये १५. योऽङ्को द्विप्नः स्थानच्युतत्वेन द्विगुणो द्वात्रिंशल्लक्षणस्तस्मिन्नर्द्धिते षोडशतां प्रापिते । एतेन यत् त्रिकं स्थानच्युतरीत्या न द्विगुणं तस्यार्धं न कार्यम्, तदवस्थमेव स्थापनीयम् । एवं सति कृतिः षडूिंशतिपञ्चशतेनै कोनसप्ततिलक्षणस्य वर्गस्य पदं - मूलं त्रिषष्यधिकशतलक्षणं १६३ वदन्ति - कथयन्ति गणितज्ञा इति सम्बन्धः । अत्रोद्देशकः श्लोकः
मूलं प्राग्वलन्धवर्गाणां, यदि वेत्सि तदा वद् | वेदान्धिवसुगोचन्द्र- फणरुद्रमितेरपि ॥ २४ ॥ '
व्याख्या - प्रागुक्तलब्धवर्गाणां एकादीनां त्रिषष्यधिकशतपर्यन्तानां मूलमेकचतुरादिलक्षणं वद । तथा वेदशब्देनाब्धिशब्देन चत्वारवत्वारः, वसवोऽष्टौ गोशब्देन नवखण्डपृथिवी, चन्द्रशब्देनैकः, फणिनो नागकुलान्यष्टौ रुद्रा एका२५ दश, एतैर्मितिः- प्रमाणं यस्य तस्य एककोटी अष्टादशलक्ष एकोनविंशतिरुहत्रा'ष्टशतचतुश्चत्वारिंशल्लक्षणस्य मूलं वदेति प्रागनुक्तवर्गस्याप्यादिं कथयेति सम्बन्धः । क्रमात् प्रश्नोत्तरन्यासौ पूर्वोक्तत्वात् स्पष्टाभिधानाविति गद्येन नोक्तौ १।४।९।१६। २५।३६।४९।६४।८१।१४४ / ५१८४ । ८६४९/२६५६९ लब्धं यथाक्रमं वर्गमूलानि १|२|३|४|५।६।७।८।९।१२।७२।९३।१६३।११८१९८४४ लब्धं वर्गमूलं ३० ३४३८ त्रयः सहस्राश्चतुःशती अष्टात्रिंशच्च । एवं वर्गमूलं समाप्तम् ॥
१ अनुष्टुप् ।
२०
Jain Education International
soppdad
For Private & Personal Use Only
www.jainelibrary.org