________________
पञ्चमोऽरः उभयनयः
१७३
उपात्तगत्यर्थो देवदत्तशब्दो देवदत्तकर्त्रर्थप्रत्यायनार्थो नानर्थकः अर्थप्रत्यायनार्थत्वाद्वचनप्रवृत्तेः ।
देवदत्तशब्दो न देवदत्तस्य वाचकः किन्तर्हि देवदत्तशब्देन देवदत्तार्थो विज्ञायमान एवानूद्यते स गच्छतीति विधानाय, स्थानविपरीतगमनप्रतिपादनाय च देवदत्तं गतिकर्तृत्वे नाध्यारोहयामीति प्रयुज्यते यो गच्छति स देवदत्त इति ज्ञातार्थेनानूद्यमानेन विधानात्, तथा च देवदत्त इत्युक्ते विशिष्टक्रियात्मककर्तृनिर्देशाद्गतेर्गतत्वाद्गच्छतिशब्दोऽनर्थकः पुनरुक्तश्व, तौ च न विभक्तविध्यनुवादार्थवक्तारं श्रोतारं वा प्रति भवतः ।
विभक्तविध्यनुवादार्थाविवेक्तारं प्रति अन्यतरस्यैव वानयोरविवेक्तारं वक्तारं श्रोतारं वा स्यात् ।
प्रथमपदोपादानसन्निहितार्थव्यञ्जनं द्वितीयपदं सन्निधिमात्रेण तथाप्रतिपत्तुः श्रोतुरुपकारकं नान्यस्य, न स पुनः शब्दापराधो यदसौ तदर्थं न प्रतिपद्यते, यथा न हि स सूर्यस्यापराधो यदेनमुलूको न पश्यतीति, अत्र प्रयोगः - प्रथमपदोपात्तार्थमेव द्वितीयपदम्, उद्गाहितार्थविवरणार्थत्वात्, भाष्यग्रन्थवत् ।
भाई
प्रथमपदोपात्तार्थश्चेद्वितीयपदं प्रथमपदोच्चारणकाल एव ततः प्रतिपत्तेः वक्तृवत्तथा प्रतिपत्तुः श्रोतुरुपकारकं स्यात् तेनैव व्यक्तत्वादित्यत्रोच्यते कस्यचिद्भवत्यपि केषाञ्चिनादित एव तदर्थस्य कारकं तथाव्यक्तव्यञ्जनत्वात् प्रदीपवत् ।
तथा च विनापि तत्सन्निधिं पूर्वश्रुतशब्दवृत्तेरेव तथा नियतत्वात्तथैव प्रतिपत्तारो दृश्यन्ते यथा “ प्रविश, पिण्डी" मिति