Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh

View full book text
Previous | Next

Page 351
________________ ३४० द्वादशारनयचक्रे न्धनस्याग्निना सहान्यत्वम्, यद्यप्यनेरिन्धनेन सहान्यत्वेऽनिन्धनत्वे सत्यरूपत्वादप्रवृत्तेरसत्त्वं सम्भाव्यते तथाप्यदोषत्वेऽस्ति न्यायः..... इन्धनाग्यन्यत्वात् हुतवहवत् दृष्टत्वात् दृष्टा हि लोके इन्धनमाहरति काष्ठमाहरतीति, अत्रोच्यते तद्विषय एवैष उपचारोऽग्नित्वपरिणतिकालसिद्धयथार्थेन्धनत्वं मुख्यमपेक्ष्य, तदन्यत्वे च स नैव स्यात्, मुख्येन्धनाभावात्, अत एव तु तदपरिणतावपीन्धनत्वस्योपचारः सिद्धयति, गौणस्य मुख्यमूलत्वात् सिंहमाणवकवत्, चित्रकरादिवद्वा ___'त्रि इन्धी दीप्ता विति ननु स्मरन्त्यभियुक्ता वैयाकरणा। दीपन इत्यग्निमिन्धः, पूर्वोक्ताच्च तद्वृत्तित्वात्स्वात्मवन्नान्यत्वम्, अदह्यमानं हीन्धनमेव न भवति, कारकाणामेव कारकत्वादित्यादिव्याख्यातत्वात्। काष्ठशब्दव्यवहारेऽप्यग्निकाष्ठयोरन्यत्वं व्याहन्यते, यदाऽयमग्निः ततोऽन्यो नास्ति सेन्धनात्, ननु यदैव काष्ठमनग्नि दृष्टं तदा तेन विना दृष्टत्वादन्यत्वसिद्धिरिति, अत्र ब्रूमः-अथाभेदवृत्तिरन्यत्वे न प्राप्नोति, अदीप्यमानाकाशेन्धनत्वाप्राप्तिवत्, कस्मान्न काष्ठमग्निः दीप्यमानावस्थायामिवाव्यक्ताग्नित्वावस्थायाम्? अग्निः काष्ठमेव, काष्ठमग्निरेव वा स्यात्, प्राग्वत् पवाद्वाऽनन्यत्वात्। ___ यदि काष्ठं कथमनग्निः काशनाद्दीपनादङ्गनात्, काष्ठमनग्नि तदिति स्ववचनविरोधः, इन्धनमनग्निरित्यपि, काश दीप्ताविति कर्तृवाचिनि थन्प्रत्यये काष्ठमिति रूपसिद्धेरशेषविरोधः, किं दारुण्यपि शक्यमित्थं भावयितुम्? को हि नाम शक्यं न

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416