Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh

View full book text
Previous | Next

Page 398
________________ द्वादशist: नियमनियमनयः ३८७ ननु कुम्भस्य सिकताकणेषु प्रत्येकमदृष्टस्य दर्शनादिति, न सामग्रीतुल्यत्वात्, सामग्री हि साध्या तयैव तुल्यः कुम्भोऽपि, अस्माभिर्यदि दृष्टः स्यान्नत्वेवतत्साध्यते अस्ति नास्ति वा सामग्रीति । तस्यैवोपन्यासात्तद्विपक्षाभिमत्याऽनैकान्तिकत्वचोदनं पाठमात्रमेतत् प्रत्येकमदृष्टस्य सिकतासु कुम्भस्य दर्शनमिति । ― अवयवास्तर्हि सन्तीति चेन्न, आ रूपादिभ्योऽवयविनश्वासत्त्वस्योक्तत्वात्, रूपादयोऽपि न स्वतो रूपादित्वं लभन्ते यस्मात् रूपादयस्तु रूपणादिनिरूपितविज्ञानसाराः तत्र रूपादीनां परस्परतः पृथक्त्वं हेतुत्वञ्च बुद्धौ वृत्तेरेव नावृत्तेः, तस्मान्न बहिरस्तित्वं जनयितुमर्हतस्ते हेत्वाद्यभावे सामग्रयभावात्, सामग्रयभावे च का द्रव्यता? इतरेतरदोषाच्चेति । इतश्व न सन्ति तथाsदर्शनात् सर्वथाऽप्ययुक्तयो दर्शनावगृहीतसद्भावाः सन्तोऽर्थाः कल्पयितव्याः, तथापि न सन्ति तस्य दर्शनस्यासम्भवात् तदपि च दर्शनं नास्त्येव यतो यावद् दृश्यं तावदारान्मध्यपरभागम् तत्र यद्याराद्भागो दृश्यते इति प्रत्यक्षमिष्यत परमध्यभागयोरदर्शनादप्रत्यक्षता तस्य किं नेष्यते ? तस्माददर्शनमेव वस्तुनः । अथ मतमाराद्भागो नियमात् प्रत्यक्षतो ग्रहीष्यते परमध्यभागौ अप्यनुमानात् कालान्तरे च प्रत्यक्षतो ग्रहीष्येते इति, न तत्रापिं त्रिभागत्वतुल्यत्वाददर्शनमेव सावयवत्वात् समस्तवस्त्वदर्शनवत् अथ मतं भागो द्रक्ष्यत इति परमाणवस्तर्हि गृह्यताम्, तेष्वदृश्यमानेषु निर्भागेषु भागवद् दृश्यत इति का कथा ? भागान्तरादृश्यत्वात्,

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416