Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh
View full book text
________________
३९६
द्वादशारनयचक्रे
यच्चानारधारब्धं तनिष्ठितमेव, शिक्यकादिवत्, यथाऽऽनारब्धमपि शिक्यकत्वेन सूत्रं शक्तत्वानिष्ठितमेवमन्यदपि वस्तु, अयैवमपि नेष्यते अनारब्धानि तानि, अनिष्ठितत्वात् खपुष्पवत्।।
अथोच्येत आदिः प्रत्यक्षत एव घटादेदृश्यते भेदहेतुः, अत्र पृच्छचसे स किं नित्यः? उतानित्यः? यदि नित्यः सर्ववस्तुनित्यता, आदिस्वरूपत्वात् तनित्यत्वाच्च, क्रियमाणनिष्ठितयोश्वाभावात् तथाजन्यभेदाभावः, ततधास्मदिष्टोऽवस्थानपक्ष एव जयति, आदिप्रत्यक्षप्रमाणीकरणाच्च क्रियानिष्ठाप्रत्यक्षद्वयपरित्यागः तयोश्च दृष्टव्यभिचारमितरत्रैकस्मिन् प्रत्यक्षं कथं प्रमाणीकरिष्यत इति पुनरपि तद्धानिरिति सर्वथा त्वयैव प्रत्यक्षमप्रमाणीकृतम्।
___ अथादिनित्यतायां दोषात् निर्वृत्तनित्यत्वमभ्युपगच्छसि यस्मान परैकतेति, नन्वेवमपि कुतो भेदः? नित्यनिष्ठितत्वे नारम्भोऽस्ति न क्रियेत्यभ्युपगतत्वात् कुतो भेदः? अथानित्यत्वमभ्युपगम्यते चेत् स किमादिर्जातोऽजात इत्यादित्वत्पर्यनुयोगवदेव दोषः, यदि जातः तस्यैवानुत्पादो जातत्वानिवृत्तघटवदित्यादित्वदुक्तवदेवेदं न युज्यते, अन्तेऽपि च त्वदुक्तदोषाविमोक्षात् यावदयोच्येतान्तः प्रत्यक्षत एव भेदहेतुर्दृश्यत इति पूर्वपक्षेस किं नित्योऽनित्य इत्यादिस एव पर्यनुयोगो वाच्यः।
सामग्रीदर्शनादपि सर्वास्तित्वसिद्धिः, तथा च तदेवैकं सर्वात्मकं स्वं परमुभयश्च तमर्थं सम्पादयति, सा च सामग्री दृश्यते प्रत्यक्षतः, सामग्री अशेषभावानां भावान्तरं प्रति वृत्तिः यथा पृथिव्यादिसामग्री तं तमर्थं प्रति, वस्तुनोऽनेकशक्त्यात्मकस्यैकस्य व्यक्ताव्यक्तशक्त्यपेक्षत्वात् सर्वसर्वात्मकत्वात्, सामग्रयामेवं

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416