Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh

View full book text
Previous | Next

Page 405
________________ ३९४ द्वादशारनयचक्रे यत्रास्तित्वमित्यादि पूर्ववत्, न मे कश्चिदोषः, मत्पक्षसाधना एव ते हेतवः। ऊर्ध्वमध्यबुध्नदेशभेदेऽप्यभिन्नः स एवैकोऽस्ति च घटः, बालकुमारादिभेदे स एवैको नरः, तथा सर्वभावाः, तथा च सर्वात्मकमेव वस्त्विति प्रत्यक्षादिप्रमाणैरुपलभामहे, अतोऽन्यथा प्रत्यक्षादिविरोधाः, एते चेन्नेष्यन्ते मदुक्तं सर्वं घटोऽस्त्येक इति प्रतिपत्तव्यम्, घटानान्तरत्वात् घटस्वात्मवदिति। विपरीतस्वभावबहुत्वाद्याशङ्कानवतार एवान्यत्वानभ्युपगमात्, नन्वन्यथा तावत् प्रत्यक्षादिभिरुपलभ्यते नास्तीति, तद्यथा घटः पटत्वेन नास्ति पटोऽपि घटत्वेनेत्यादि, घटो हि घट एवोपलभ्यते न त्वसौ पटोऽपि, अथ पुनस्त्वन्मतेन सर्वरूप उपलभ्येत, न तूपलभ्यते तस्मान्नास्ति पटादित्वेनेति पररूपेणाभारः, तथा स्वरूपेणाप्यभावः पररूपासत्त्वात् खपुष्पवदिति। को वा ब्रवीति नोपलभ्यत इति, ननु भोः त्वं नाम सर्वात्मकमुपलभ्यमानमप्यपलप्य शून्यं कर्तुमिच्छसि, न पुनरहमुपलभ्यमानमेव सर्वरूपं सन्तं कर्तुं शक्रोमीत्यहो साहसम्, घटो हि मृत् मृन्मयत्वात् मृदः पृथिवीत्वं तदंशत्वात् पृथिव्या द्रव्यत्वं द्रुविकारत्वात्, द्रव्यस्य भव्यत्वात् भव्यस्य भवितृत्वात् भवितुः सर्वत्वात् सदस्ति भाव इति घटपटादिसर्वं परस्परस्वरूपं हस्तवदिति न किञ्चिदेतत्, अन्यथा तावन्नास्त्येव घट इति। अयोच्यते भिन्न एवासावर्थो भिन्नप्रकारत्वात्, वादिप्रतिवादिमतिवचनवदित्येतच्च न तुल्यत्वात्, येन प्रकारेणैकस्यात्मलाभस्तेन प्रकारेण सर्वभावानामिति सर्वोऽप्य भिन्नोऽसावर्थः,

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416