Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh

View full book text
Previous | Next

Page 404
________________ द्वादशभङ्गस्यान्तरम् ३९३ स्वायत्तमेव, यदि स्वविषयमेव तन स्यात् नानामिका मध्यमादीर्घतायामपि कनिष्ठिकातो दीर्घा स्यात्, स्वात्मन्यविद्यमानदीर्घत्वात्, खपुष्पवत्, भवंति तु दीर्घापि स्वायत्तकनिष्ठिकापेक्षस्वगतदीर्घत्वपरिणामात्, तथा न च मध्यमा शक्रयष्टिदीर्घतायां अनामिकापेक्षात् भवति तु, एवं हस्वत्वमपि। स्वगतनानारूप्यानतिक्रमात्तु एकपुरुषपितृपुत्रत्वादिवत् तथा तथानियमवृत्तेर्हस्वत्वदीर्घत्वाव्याघातः, आत्मगता एव हि तास्ताः सापेक्षनिरपेक्षाः परिणामशक्तयः पुद्गलानामन्येषाञ्च। अनेनैव न्यायेन ह्रस्वसद्भावे दीर्घस्याभावो न भवति, तथेतरेतराश्रयत्वादसिद्धिरपि न, उक्तवत् अत एवाप्रतिद्वन्द्रित्वम्, विरुद्धाभिमतसर्वधर्माविरोधवृत्तत्वात्, एवमेव चेतरेतरयोगविचारान -वकाश इति। संयुक्तेरपि च स्वपरोभयभावः, इह भाव एव भावो नाभाव इति, स च भावः तदतदतीतानागतवर्तमानेष्वविशिष्ट एव, तद्भावे भावातू तदभावे चाभावात्, घटपांशुकार्पासतन्तुपटवत् सर्वसर्वैक्यमिति स्थितेऽस्मिन् न्याये तत्रास्त्येको घट इति त्रयाणामेकत्वे यत्रैकत्वं तत्रास्त्विस्यापि निष्कलेन स्वतत्त्वेन भवितव्यम्, अनर्थान्तर -त्वात्, यत्र यस्यानन्तरत्वं तत्र तस्य निष्कलमेव स्वतत्त्वं, . एकस्मिन्नेकत्वस्वतत्त्ववत्, अस्तित्वस्वतत्त्वञ्च सर्वभावा इति यदुक्तं तत् सर्वशक्त्यैकं वस्त्विच्छतो ममेष्टमेव।

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416