Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh

View full book text
Previous | Next

Page 412
________________ तुम्बनिरूपणम् अन्योऽन्याविनाभावात्, विध्यादीनामेकस्मिन्नप्युक्ते शेषनया उक्ता एव वर्षाभिधानमेघाभ्युन्नतिवचनवत्, प्रतिज्ञादावितरभङ्गार्थाव्यभिचारात्, तत्साधनधर्माणां तदन्वयव्यतिरेकप्रदर्शनसाधर्म्यवैधर्म्यदृष्टान्तानाञ्चार्थाव्यभिचारात् द्वादशानामभिधानं कृतमेव । :. - , ? तथा ह्ययमेव प्रयोगार्थो विधि-विधिविधि- विध्युभयविधिनियमो भयो भयविध्यु भयोभयो-भयनियम-नियम-नियम विधि - नियमोभय - नियमनियमाः ऐकमत्येनान्योन्यापेक्षवृत्तयः सत्यार्थाः, तत्तनयदर्शनविकल्पैकवाक्यात्मकत्वात्, घटवदित्येक एवायं हेतुः प्रत्येकनयविवक्षया प्रयोगेऽपि तत्र यस्मिन् कस्मिंश्चित् नित्यानित्यादीनां साधने प्रयोगविधयो भवन्ति तेषां भङ्गानामेकैकयोगे द्वादश भङ्गाः, द्विकयोगे षट्षष्टिः, त्रिकसंयोगे द्वे शते विंशे, चतुष्कयोगे चत्वारि शतानि पञ्चनवतियुतानि पञ्चकयोगे द्विनवति - युतसप्तशतानि षट्कयोगे चतुर्विंशत्युतशत्युत्तरनवशतानि सप्तक -योगे द्विनवतियुतसप्तशतानि, अष्टकयोगे चत्वारि शतानि पञ्चनवतियुतानि, नवकयोगे द्वे शते विंशे, दशकयोगे षट्षष्टि एकादशयोगे द्वादश, द्वादशयोगे एक एव । एवं सर्वसङ्ग्रहेणैताः प्रतिज्ञाः । तासाचैकैकस्यां हेतूनां चत्वारि सहस्राणि पञ्चनवतियुतानि (४०९५ ) विकल्पशो भवन्ति । एवञ्च प्रतिज्ञाभङ्गहेतुभङ्गाश्वान्योन्यगुणिता भङ्गानामेका - कोटी - सप्तषष्टिः शतसह स्राणामेकोनसप्ततिश्च सहस्राणां पञ्चविंशेति (१६७६९०२५) | एवं तावन्नित्यादिप्रतिज्ञासु भङ्गानां भेदाः । 1 ४०१ -

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416