Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh

View full book text
Previous | Next

Page 413
________________ ४०२ द्वादशारनयचक्रे एवमियमनेकान्तवाददिगुपदर्शिता । एवञ्चानेकान्ते सम्यगवलोकिते न स कश्चिद्यो न हेतुः, तृणादिरपि यस्यां कस्याञ्चित् प्रतिज्ञायां हेतुर्भवति, सर्वस्य सर्वात्मकत्वेन सर्वद्रव्यपर्यायार्थविपरिवृत्तेः । तस्मात् सर्वमेकात्मकमेकञ्च सर्वात्मकं सर्वश्च सर्वात्मकं इत्यादितत एवैकं यो वेद स सर्व वेद यः सर्व वेद स एकं वेद। येन त्वेवंविधं वस्तु न ज्ञायते नासौ कस्यचिद्वस्तुनोऽवयवमात्रस्यापि ज्ञाता, तदेकदेशमात्रस्यैव परिगृहीतत्वात्, अनवधार्यस्यावधारयितृत्वात्, त्वगङ्गारकितमात्रनियतपलाशस्वतत्त्वग्राहिवत्। भगवांस्त्वहन् यदेतत् सर्वं नाम तत्र निरावरणज्ञानः, तस्य यथाभूतसप्रभेदस्य सम्यगभिधातृत्वात्, यस्य यथाभूतप्रभेदवस्तुविषयसम्यगभिधातृत्वं स तत्र निरावरणज्ञानो दृष्टः, तद्यथा मैत्रक इव त्वगङ्गारकितादिभेदपलाशस्वतत्त्वं देशकालाकारप्रमाणादिविशिष्टं शिशिरवसन्तनिदाघवर्षाशरद्धेमन्तेषु तां तामवस्थां बिभ्रतं पलाशं त्वङ्मात्रोऽङ्गारकितः किसलयितः पत्रित इत्यादि ब्रुवन्, तथाऽईन् यथाभूतं वस्तु निरवशेषं ब्रुवन्निरावरणज्ञान इत्यनुमीयताम्। ___सत्स्वपि पूर्वाचार्यविरचितेषु नयशास्त्रेषु तस्मिंधार्षे सप्तनयशतारचक्राध्ययने च द्वादशारनयचक्रोद्धरणं दुःषमाकालदोषबलप्रतिदिनप्रक्षीयमाणमेधायुर्बलोत्साहश्रद्धासंवेगश्रवणधारणादिशक्तीनां सङ्केपाभिवाञ्छिनां शैक्षकजनानामनुग्रहाय विहितं

Loading...

Page Navigation
1 ... 411 412 413 414 415 416