Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh
View full book text
________________
द्वादशारनयचक्रे प्रधानोपसर्जनत्वेतराभावभेदप्रधानत्वावक्तव्यत्वभेद समुदायिमात्रत्व -क्षणिकशून्यताऽकृतकत्वात्, व्याख्यार्थघटवत्।
एवं सर्वप्रभेदेष्वपि, स्यादेकः स्यादेकानेकः, स्यादनेकः विधिविधिनियमनियमस्वभावत्वात्, विध्यादिद्वादशात्मकत्वात्, घटवत्, भावितमेव नयचक्रशास्त्रेणानेन, एवञ्च जिनशासनमेकान्तसत्यमेव, सम्यक्सम्प्रसिद्धयुपनिबन्धनसम्प्रतिष्ठितार्थत्वात् सद सदर्थपदाव्यभिचारिप्रमाणप्रबन्धसंसिद्धबहुभेदार्थसिद्धादेशनैमित्तिकवाक्यार्थवत्।
एतदन्यतरैकान्तशास्त्रप्रबन्धस्तु विघटितार्थः, प्रस्तुतवस्तुविच्छेदपरमार्थत्वात्, दश दाडिमानीत्यादिवाक्यवत् ।
एवमनेन समस्तेन ग्रन्थेनैतदभिहितं - विधिनियमभङ्ग वृत्ति -व्यतिरिक्तत्वादनर्थकवचोवत् जैनादन्यच्छासनमनृतम्, जैनमेव शासनं सत्यम्, विधिनियमभङ्गवृत्त्यात्मकत्वात्, भवतिवत्, घटवद्वा, एकमेव वा साधनम्, तत्साधयंवैधाभ्यां सर्वैकान्तवादि दूषणायानेकान्तवादिपक्षसाधनाय च प्रभवति । एवञ्च कृत्वा विधिनियमभङ्गव्यतिरिक्तत्वादिति सिद्धे वृत्तिवचनमशेषभङ्गैकवाक्यतायामेव प्रतिभङ्गमपि वृत्तिरिति ख्यापनार्थम् । किमुक्तं भवति? स्याद्वादतुम्बप्रतिबद्धसर्वनयभङ्गात्मिकैकैव वृत्तिः सत्या, रत्नावलीवत्, अन्यथा वृत्त्यभाव एव, तथैव च सर्वैकान्तप्रक्रमः।
जैनशासनसत्यत्वेतरशासनासत्यत्वसाधनयोः एकतरस्य साधनेन साधर्म्यवैधाभ्यामर्थद्वयप्रतिपादनं कृतं भवति,

Page Navigation
1 ... 409 410 411 412 413 414 415 416