Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh
View full book text
________________
तुम्बनिरूपणम्
एतदपि नैवेकान्ते युक्तम्, ततश्च विधेरारभ्य विधिविध्यन्तरानुक्रमक्रमेणोत्तरोत्तरैकान्तायुक्तत्वप्रक्रान्त्या तेषु तेष्वरान्तरेषु विचारितमेव यावच्छून्यवादम्।
तदेकान्तायुक्तत्वस्थापना त्वेकान्तवादानां परस्परसंयुक्तत्वमापाद्य प्रत्येकशो द्विशोयावद् द्वादशारशः सप्रभेदस्तेषामुपरिविधिनयो यथालोकग्राहं वस्त्विति, तद्व्यावर्तितसविकल्पसामान्यविशेषाद्धारार्थं विधिनियमविधिस्तनिवर्त्तनार्थमुभयोभयनय इत्ययं अपि क्रमो यावत् पुनरयं विधिविधिः, यथा चानेन शून्यवादपूर्वपक्षस्य सम्बन्धस्तथैवैकैकेन द्रव्यार्थभेदेन, यथा च तैः प्रत्येकं विधिविधिना शून्यवादे प्रतिषिद्धे यथारुचितमभिसम्बन्धः, शून्यवादस्य अपि येन केनचिदेकादशानामन्यतमेनान्तरितस्य सम्बन्धोपपत्तेः।
तस्माच्च द्वादशान्यतमारानन्तरोत्थानक्रमसम्बन्धेन सर्वकुमतपक्षाणां व्यवस्थायाश्वेशनार्थं सर्वमिदं नयचक्रशास्त्रं क्रमते, एवमेवास्य शास्त्रस्य नयानां चक्रं नयचक्रं नयसमूह इत्यन्वर्थसंज्ञा स्यात्, यथा चास्मादेवं सर्वेभ्योऽपि सर्वनयानामुत्थानमविरुद्धम्।

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416