Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh

View full book text
Previous | Next

Page 399
________________ द्वादशारनयचक्रे सिकतातैलवद्वा प्रत्येकं दर्शनाभावे तत्समुदायेऽपि दर्शनाभावात्, यदा च परमाणुर्न कस्यचिद् दृश्यस्तदा कुतः परमाणुसङ्घातो भागवान् द्रक्ष्यते? भागवति वा परमध्याग्रहणादगृह्यमाणे तदंशा निर्विभागाः परमाणवो ग्रहीष्यन्ते इति । ३८८ : -दृश्यदर्शनव्यवहारस्तर्हि कथमसति दृश्ये सम्भवतीति चेदुच्यते, अयन्तु व्यवहारो विज्ञानोत्थापित एव, विज्ञानश्वासत्यपि बाह्येऽर्थे तथा तथा विपरिवर्त्तमानं बाह्यार्थवदवभासते वस्तुत्वात् स्वप्नवत्, तत्रापि जाग्रगृहीतोऽर्थः कारणमिति चेत्तत्र च तत्र च विज्ञानमेव कारणम् स्वप्रजागरणकारणेन विज्ञानेनैवोत्थापि तोऽर्थोऽर्थ इति प्रतिपत्तुं शक्यो नान्यथा, यदि वाऽविज्ञानोऽर्थः कश्चिदस्ति स दर्श्यतां त्वया मया पुनः शक्यतेऽर्थेन बाह्येन विज्ञानमेवार्थ इति दर्शयितुम्, तद्यथा स्वप्ने त्वनर्थकं विज्ञानमेवार्थ इति । अत्र च विज्ञानं शब्दार्थः, विज्ञानमेव हि शब्दो विज्ञानोत्थापितो रूपरसादिघटपटादि - बाह्यो वाच्यो विज्ञानमेव, एवं तर्हि प्रमाणप्रमाणाभासाविशेष इति चेदिष्यत एतत्, तच्च विज्ञानं कल्पना, अनियतदेशकालाकारनिमित्तनैमित्तिकत्वात् सुप्ततैमिरिकादि विज्ञानवत्, बुद्धयनुसंहृतिर्वाक्यार्थः । अयश्च विकल्प एवम्भूतैकदेशः, तस्य च पर्यवास्तिकभेदत्वात्, परिसमन्तादवगमः, नैः स्वाभाव्यात् परितोऽवगमः, सोऽस्यास्तीति मतिरस्य पर्यवास्तिकोऽयं नयः, स च भावः

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416