Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh

View full book text
Previous | Next

Page 400
________________ द्वादशोऽरः नियमनियमनयः ३८९ भावोऽपि भाव एव साकारोऽनाकारो वा प्रमाणप्रमाणाभासादिविकल्पशून्यः, द्रव्याशब्दश्वैष षट्स्वपि दुर्गतिः, तस्या विकारे यत्प्रत्यये द्रव्यमिति, द्रव्यमेवार्थः द्रव्यार्थः, स पुनस्तथातथा प्राग्व्याख्यातो यथादर्शनं पर्यायार्थ एव स षड्विकल्पोऽपि, तथा गतेः। निबन्धनमस्य 'से किं तं भावखंधे ! २ दुविहे पण्णत्ते तं जहा . आगमतो अ, नो आगमतो अ, से किं तं आगमतो भावक्खंधे। २ जाणये उवउत्ते सेत्तं आगमतो भावखंधे इति, आगमभाव स्कन्धादेरुपयोगलक्षणस्य विज्ञानस्वरूपमात्रत्वात् सर्वमुपयोग एव, अयं नियमस्यापि क्षणिकवादस्य नियमः, तदपि क्षणिकं वस्तु विज्ञानमेव । इति नियमनियमभङ्गो द्वादशः। १. अनु. सू. ५४-५५

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416