Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh

View full book text
Previous | Next

Page 396
________________ द्वादशist: नियमनियमनयः अथ मा भूद्विज्ञानमात्रताप्रसङ्ग इत्यन्यथाssदिः प्रधानादिरिष्यते पूर्वप्रत्युपसंहारसमाहितत्वादिति स सोपसंहारः किं नित्यः ? उतानित्यः ? अथादिनित्यतायां दोषान्नित्यनिष्ठितमिष्यते ततः पूर्वोक्त एव दोषो यावद्विज्ञानमात्रार्थता, अन्तनित्यतायान्त्वसत्त्वमेव । ३८५ अथानित्यत्वे स किं जातः ? किमजातो वा ? यदि जातोऽनुत्पादस्तर्हि जातत्वात् निर्वृत्तघटवदनुत्पन्नत्वादसन्, ययजातस्ततोऽप्यनुत्पादः, अजातत्वात् अनिर्वृत्तघटवत् जाताजातश्चेद्विरोधादुभयपक्षदोषसम्बन्धाच्च, निष्ठायामपि किं निष्ठितोऽ निष्ठतो वा? यदि निष्ठितः, अनुत्पादस्तर्हि निष्ठितत्वात्, निष्ठितघटवत्, यद्यनिष्ठितस्तथाप्यनुत्पाद एवानिष्ठितत्वात् अनिर्वृत्तघटवत्, अनिष्ठितश्चासन्, असत्त्वादकर्त्ता, अकर्तृत्वाच्च खपुष्पवन्न नितिष्ठति, नोभयमुक्तवत्, अन्तेऽपि किं विनष्टो विनश्यति, किं वाऽविनष्टः ? यदि विनष्टो विनश्यतीतीष्यते ततोऽनुत्पाद एव विनष्टत्वात् विनष्टघटवत्, नाविनष्टोऽक्षतघटबदभूतविनश्यद्भावत्वादाकाशवदिति वा, अस्यानुगमं कृत्वा प्रसङ्गः नोभयमुक्तवदिति नोत्पत्तिस्थितिभङ्गाः सिद्ध्यन्ति ततश्च खपुष्पवदभाव एव स्याद्वस्तु । अथोच्येत किं न एताभ्यामस्वरूपाभ्यामाद्यन्ताभ्यां प्रयोजनम्, एतौ हि वस्तुन आत्मलाभात् पूर्वोत्तरकालौ, तयोरभावे sपि तन्मध्ये वस्तु भवितुमर्हत्येव, अत्र ब्रूमः, तन्मध्ये मध्यं वा किं जातमजातं वा वस्तु स्यात् ? यदि जातम्, अनुत्पादस्तर्ह्यस्य जातत्वान्निर्वृत्तघटवदित्यादि स एव ग्रन्थः, यावपि च तौ कालौ

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416