Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh

View full book text
Previous | Next

Page 390
________________ द्वादशist: नियमनियमनयः एवं घटादीनामपि स्वरूपसिद्धिरेव नास्ति, न घटे घटत्वम्, परायत्तत्वाद् घटत्वस्येत्यादिदीर्घत्वप्रतिषेधन्याय एवात्रापि, यदि हि स्वविषयमेवैतत् स्यात् घटो न घटोsपि स्यात्, भवत्वितरेतरः तस्य चाघटत्वे एवमन्येsपि घटा इति तस्याभाव:, तस्याभावेऽघटाभावः घटापेक्षत्वाद घटत्वस्य, सोऽप्येवमघटो न भवति, एतद्धटायत्तत्वादघटत्वस्य, तयोः परस्परायत्तवृत्तित्वात् कदा घटः सेत्स्यति प्रत्येकव्यक्त्यात्मा? यदाऽसावघटो भवेत्, अघटश्च घटसिद्धौ सेत्स्यतीति इतरेतराश्रयत्वादसिद्धिः । ३७९ अथाघटेऽपि न घटत्वम्, प्रत्यक्षत एवाघटे घटत्वस्याभावात् प्रतिद्वन्द्वित्वाच्चाघटे कथं घटत्वं स्यात्, ह्रस्वदीर्घत्ववत्, अघटस्य च घटत्वे घट एव सः प्राप्तः तस्मात् को घटो नामाघटादन्य इति घटाभावः, घटत्वाभावात्मकत्वादघटत्वस्य, अघटाभावाच्च नास्ति घटत्वम्, घटत्वास्याघटे वृत्ते घटत्वावष्टब्धेऽघटत्वानवकाशात्, अघटाभावे व घटत्वं वर्त्तेत? तथापि पुनर्न सिद्ध्यति घटत्वं स्वात्मनि परत्र वा वृत्त्यसम्भवात् । न द्वये, उक्तन्यायात् द्वयोरन्यतरत्राप्यसिद्धस्य कुत उभयत्र सिद्धिः स्वपरयोः प्रतिद्वन्द्वित्वाद्वा तयोः सहवृत्तिरयुक्ता, अयमपि च न्यायश्चिन्त्यः किमघटे घटत्वं वर्त्तमानमुभयत्र भावं लभते ? उत घट एव वर्त्तमानमिति, यद्यघटे विद्यमानमुभयत्र भावं लभते ततोऽघटे वर्त्तमानं घटत्वं घटस्य घटत्वं कथं कुर्यात्, तद्बुद्धिश्वादध्यात् ? ततोऽन्यत्र वृत्तत्त्वात् हस्वादीर्घप्रत्ययवत्, अथ घट एव घटत्ववृत्तिरिष्यते ततो घट एव वर्त्तमानं घटत्वं घटतां करोति

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416