Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh

View full book text
Previous | Next

Page 393
________________ द्वादशारनयचक्रे नन्वस्तित्वैकयोर्विपरीतता कस्मात् सर्वगतत्वाद्वयाप्तेः, ततो व्यावृत्तिः कल्प्यते घटादयः परस्परविपरीता इति, अत्र ब्रूमः, एवं तावदेकत्वे कुत इदं ? यत्ते सर्वगते न घटत्वम्, घटत्वमेवासर्वगतं न ते इति, नन्वेवं सर्वेषामप्येकरूपेण भवितव्यम्, अनन्यत्वात्, प्रतिवस्तुतत्त्ववदिति नास्ति सर्वगतत्वासर्वगतत्वविशेषः, अथ एतन्नेष्यते घटबहुत्वं तर्हि प्राप्तम्, यस्मादस्त्यपि घटो भेदेन, एकोऽपि, घटोऽपीति त्रयो घटाः स्युः, अथ घट एवैको घट इष्यते, न त्वस्तित्वैकत्वे. सिद्धस्तर्हि नास्ति घट इति, अस्तित्वार्थान्तरत्वात् खपुष्पवत्, नैक इति च, एकत्वास्तित्वत्यागाच्च रूपादिषु घटैक - देशेष्वपि न घट इति प्राप्तम्, एकत्वत्यागात्, एकैकत्वाच्च रूपादीनां रूपादिष्वभावे घटस्य रूपादयो घटः संवृतिसन्निति निवर्त्तते, क्षणिक इति च न क्षणिकमात्रम्, अस्तित्वत्यागात् ततश्चानस्तित्वो घट इति प्राप्तम्, तच्च विज्ञानमात्रमिदं सर्वं इति वक्ष्यमाणपक्षो ऽभ्युपगतो भवति । ३८२ अथोच्येत बह्वेवास्ति प्रत्येकवृत्तेरस्तित्वस्य, बह्वेव नास्ति परस्परव्यावृत्तस्वरूपत्वात्, तच्च कचिदर्थे न सर्वत्र, पटातू विशेषणार्थमस्ति घट इत्युच्यते, एकमपि व्यादिविशेषणार्थमुच्यते तत्रात्येको घट इति, सर्वैकत्वप्रसङ्गो घटबहुत्वप्रसङ्गश्च कुत आयातौ ? इति एतन, सर्वसमयाप्रसिद्धेः, अस्तितत्त्वं न कस्यचित् समयसिद्धं बह्विति, अस्तित्वस्य रूपान्तराभावात् । यदि स्याद्रूपान्तरं ततो नानारूपमेव स्यात् किश्चिदस्ति किञ्चिन्नास्ति किञ्चिदस्ति नास्ति चेति, अनिष्टञ्चैतत् तस्मादभेद

Loading...

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416