Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh
View full book text
________________
एकादशोऽरः नियमोभयनयः
३६३
'जातिरेव हि भावानां विनाशे हेतुरिष्यते। पश्चात् विनाशकाभावान विनश्येत् कदाचन ॥' तथा - 'जुहुख्कित्तं मिलेडंमि उप्पादे अत्यि कारणं।
पट्टणे कारणंणत्थि अणत्यु......... ॥ इति। तस्मात् प्रतिक्षणमुत्पत्तेरेव विनाशित्वं सिद्धं रूपादीनाम्, तत्रैवं रूपादीनामभूततथार्थत्वाद्देशाभेदभवनाभावसमुदायवत् कालाभेदभवनाभावादसत्त्वम्, यथा हि समुदायस्य देशाभेदस्य संवृतिसतः परमार्थतोऽसत्त्वं तथा रूपादेरपि रूपादिपरमार्थतया भवतोऽप्येकस्मिन् क्षणे न क्षणान्तप्रतीक्षणं कालतो भेदात् रसादिरूपकालाभेदादित्यर्थः, तस्योत्तरकालप्रतीक्षितत्वात्तदेवेदमित्यशक्यं वक्तुम्, ततोऽत्यन्तमन्यत्वाद्रसादिवत्।
कृत्वा कल्पनया इत्थं स्याद्यदि स्यात् तयथारूपं तथारूपं तद्रूपं स्यात् द्वितीयक्षणादिषु न कदाचित्, इदन्तु तदभावपरम्परापतितमसदेव समुदायवत्, यथा समुदायः स्वरूपेणासनेव रूपादीनामेवं रूपमपि, पृथक्त्वानवस्थितार्थत्वात्, अतो रूपं, रूपस्वरूपासत् एवं नियमो नियमितोऽसत्त्वेन विशेषो रूपादिः। ___ अभावार्थस्तु नियमः यत्तत् प्रतिक्षणभवनं तस्य तत्तु क्षणे क्षणे वृत्तमत्यन्ताभावविपरीतवृत्ति सत् कथमनर्थतायां स्यात्? किन्तु नास्ति तत्, अत्यन्ताभावत्वात्, खपुष्पवदिति स्यादतः प्रतिक्षणं न भवति न भवतीति विशेषाभ्युपगमात् सोऽभावः समर्थश्च।
ननु स भवनव्यपदेशः सत्त्वे घटते, अन्यथा हि कुतोऽस्या त्यन्तभेदस्य भवतीति भवनेनोपाख्या? अभावो वाऽर्थोऽस्येत्यस्य

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416