Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh

View full book text
Previous | Next

Page 375
________________ ३६४ द्वादशारनयचक्रे शब्दनिर्देश्योऽन्योऽर्थः सन्नसता सम्बध्यते, अभावस्याश्रयभूतत्वात्, भाव एव ह्याश्रयो भवितुमर्हति एकक्षणविज्ञानवद्रूपादिसदसद्विचारस्य, इतरथा निराश्रयौ प्रागभावप्रध्वंसाभावौ न स्याताम्, इष्टौ च तौ न हि भावमनाश्रित्य भवितुमुत्सहेते, असद्विशेषत्वात्, स चाश्रयोऽर्थः पूर्वमसद्रूपः पश्चाच्च सदित्युच्यमानत्वात् तदुपपदनञ्त्वात्, अर्थ इति नाभावमन्तरेणोत्सहते, अभाव इति चार्थम् । ननु रूपादिभावोऽर्थः क्षणिकतायां सत्यामपि नाभावमन्तरेण नोत्सहते भवितुम् ? न चाभावः नञपपदत्वात्, अब्राह्मणवत् भावाद्रूपादेरन्यस्याभाव इति निर्देशो युक्तः । नन्वेवं क्षणिकत्वादसत्त्वे कथमुत्पन्ने पुत्रादौ घटादौ वाऽर्थे भूतमित्याश्वासः, दग्धमृतप्रध्वस्तेषु चानाश्वासः ? अविषयत्वात्, नन्वविषय एवायं व्यवहारः, क्षणिकेऽस्यासम्भवात् उक्तवत् एवमेव च वैराग्यभावना घटते, तदर्थश्वायमारम्भ इति गुणोपचयः । स हि युज्यते संवृत्या, सन्तानविषयत्वात्, उत्पादो विनाशश्व किं सूक्ष्मः महान् वा? महोत्पादः सूक्ष्मोत्पाद इत्येवम्, महत्ता सन्ताने उत्पादविनाशयोः सूक्ष्मता तत्प्रवृत्तेः बुभुक्षातृष्णयोरिव न तर्हि सूक्ष्मौ स्त एव, अकारणत्वात् खपुष्पवत्, सन्तानगतावैव स्तः, सकारणत्वात्, चक्रस्थघटस्येव न घटस्येव विनाश इति, अत्रोच्यते परस्परकारणत्वात्, जातिर्विनाशस्य कारणं जातेर्विनाशः, तयोर्युगपद्भावात्, 'नाशोत्पादौ समं यद्वन्नामोनामौ तुलान्तयोः ' । एवमेव च सन्तानसिद्धिः, युगपदुत्पादविनाशैः रूपनैरन्तर्यात्, अन्यथाऽनवस्थानेन क्रियाकर्त्तुरभावात् का क्रिया? उक्तश्च

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416