Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh

View full book text
Previous | Next

Page 373
________________ ३६२ द्वादशारनयचक्रे उत्पन्नः स ‘'नंष्टा चेन्नाशविघ्नः कः ?' यदि हि उत्पत्तिविनाशस्वभावो भावः तर्हि तस्य विनाशधर्मणः सतः को विनाशप्रतिबन्धी विघ्नः येनावतिष्ठेत तद्विशिष्टमपि कालम्, स उत्पन्नमात्र एव विनाशमनुभवेत्, अनन्तसत्त्वे सति तत्स्वभावत्वात्, विनाशक्षणवत्, 'न चेन्नैव विनंक्ष्यति' । एवमनिच्छतः स नैव नश्येत्... पूर्ववत् । , 1 अस्ति विघ्नः कोऽसौ ? विनाशहेत्वसान्निध्यम्, कः कस्य विनाशहेतुः ? यत्सन्निधानासन्निधानाभ्यां विनाशाविनाशौ यथा घटस्य मुशलाद्यभिघातोऽग्निसंयोगः पार्थिवानां रूपादीनामपाञ्च विनाशहेतुरित्यत्रोच्यते 'साध्यं विनाशहेतुत्वं' । अन्यतरासिद्धेः कथं निर्धार्यते हेतुरेवेति, विशेषहेतुर्वाच्य इति, अस्ति विशेषहेतु:, तस्मिन् सति ‘पश्चादग्रहणं यत' इति अत्रोच्यते – इदमज्ञापकम् 'स्वयं विनाशे तुल्यत्वात् तथानुत्पत्तितोऽग्रहः ' कथं कृत्वा ? यथासङ्ख्यनिर्देशा हि पार्थिवघटरूपादयः रूपादय एव घटाकारेणोत्पद्यमाना घट इत्याख्यां लभन्ते, समुदायविशेषात्, ते पुनः स्वयमेव विनष्टाः, उत्पत्तेरेव विनाशकारणत्वात्, तत्राभिघातप्रत्ययवशादन्ये रूपादयो न पुनस्तथोत्पन्नाः, तस्मात् तदानीं घटत्वेन रूपाद्यग्रहणम्, तेन न घटो विनाशितः, तथा पार्थिवा अपि रूपादयः आपश्च । कथमिदमवगन्तव्यं दृश्यमानेऽभिघातादौ दृश्यमानेऽभिघातादौ विनाशहेतौ स्वयं , स्वयमेव विनाश इति एतदधुनाऽनुमानेन प्रत्याय्यते विनाशि घटादि, जातत्वात्, प्रदीपशिखावत्, आगमोऽपि GRG

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416