________________
३६२
द्वादशारनयचक्रे
उत्पन्नः स ‘'नंष्टा चेन्नाशविघ्नः कः ?' यदि हि उत्पत्तिविनाशस्वभावो भावः तर्हि तस्य विनाशधर्मणः सतः को विनाशप्रतिबन्धी विघ्नः येनावतिष्ठेत तद्विशिष्टमपि कालम्, स उत्पन्नमात्र एव विनाशमनुभवेत्, अनन्तसत्त्वे सति तत्स्वभावत्वात्, विनाशक्षणवत्, 'न चेन्नैव विनंक्ष्यति' । एवमनिच्छतः स नैव नश्येत्... पूर्ववत् ।
,
1
अस्ति विघ्नः कोऽसौ ? विनाशहेत्वसान्निध्यम्, कः कस्य विनाशहेतुः ? यत्सन्निधानासन्निधानाभ्यां विनाशाविनाशौ यथा घटस्य मुशलाद्यभिघातोऽग्निसंयोगः पार्थिवानां रूपादीनामपाञ्च विनाशहेतुरित्यत्रोच्यते 'साध्यं विनाशहेतुत्वं' । अन्यतरासिद्धेः कथं निर्धार्यते हेतुरेवेति, विशेषहेतुर्वाच्य इति, अस्ति विशेषहेतु:, तस्मिन् सति ‘पश्चादग्रहणं यत' इति अत्रोच्यते – इदमज्ञापकम् 'स्वयं विनाशे तुल्यत्वात् तथानुत्पत्तितोऽग्रहः ' कथं कृत्वा ? यथासङ्ख्यनिर्देशा हि पार्थिवघटरूपादयः रूपादय एव घटाकारेणोत्पद्यमाना घट इत्याख्यां लभन्ते, समुदायविशेषात्, ते पुनः स्वयमेव विनष्टाः, उत्पत्तेरेव विनाशकारणत्वात्, तत्राभिघातप्रत्ययवशादन्ये रूपादयो न पुनस्तथोत्पन्नाः, तस्मात् तदानीं घटत्वेन रूपाद्यग्रहणम्, तेन न घटो विनाशितः, तथा पार्थिवा अपि रूपादयः
आपश्च ।
कथमिदमवगन्तव्यं दृश्यमानेऽभिघातादौ दृश्यमानेऽभिघातादौ
विनाशहेतौ
स्वयं
,
स्वयमेव विनाश इति एतदधुनाऽनुमानेन प्रत्याय्यते विनाशि घटादि, जातत्वात्, प्रदीपशिखावत्, आगमोऽपि
GRG