SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ एकादशोऽरः नियमोभयनयः ३६३ 'जातिरेव हि भावानां विनाशे हेतुरिष्यते। पश्चात् विनाशकाभावान विनश्येत् कदाचन ॥' तथा - 'जुहुख्कित्तं मिलेडंमि उप्पादे अत्यि कारणं। पट्टणे कारणंणत्थि अणत्यु......... ॥ इति। तस्मात् प्रतिक्षणमुत्पत्तेरेव विनाशित्वं सिद्धं रूपादीनाम्, तत्रैवं रूपादीनामभूततथार्थत्वाद्देशाभेदभवनाभावसमुदायवत् कालाभेदभवनाभावादसत्त्वम्, यथा हि समुदायस्य देशाभेदस्य संवृतिसतः परमार्थतोऽसत्त्वं तथा रूपादेरपि रूपादिपरमार्थतया भवतोऽप्येकस्मिन् क्षणे न क्षणान्तप्रतीक्षणं कालतो भेदात् रसादिरूपकालाभेदादित्यर्थः, तस्योत्तरकालप्रतीक्षितत्वात्तदेवेदमित्यशक्यं वक्तुम्, ततोऽत्यन्तमन्यत्वाद्रसादिवत्। कृत्वा कल्पनया इत्थं स्याद्यदि स्यात् तयथारूपं तथारूपं तद्रूपं स्यात् द्वितीयक्षणादिषु न कदाचित्, इदन्तु तदभावपरम्परापतितमसदेव समुदायवत्, यथा समुदायः स्वरूपेणासनेव रूपादीनामेवं रूपमपि, पृथक्त्वानवस्थितार्थत्वात्, अतो रूपं, रूपस्वरूपासत् एवं नियमो नियमितोऽसत्त्वेन विशेषो रूपादिः। ___ अभावार्थस्तु नियमः यत्तत् प्रतिक्षणभवनं तस्य तत्तु क्षणे क्षणे वृत्तमत्यन्ताभावविपरीतवृत्ति सत् कथमनर्थतायां स्यात्? किन्तु नास्ति तत्, अत्यन्ताभावत्वात्, खपुष्पवदिति स्यादतः प्रतिक्षणं न भवति न भवतीति विशेषाभ्युपगमात् सोऽभावः समर्थश्च। ननु स भवनव्यपदेशः सत्त्वे घटते, अन्यथा हि कुतोऽस्या त्यन्तभेदस्य भवतीति भवनेनोपाख्या? अभावो वाऽर्थोऽस्येत्यस्य
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy