SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ एकादशो नियमोभयनयः इदमशक्यं यद्यत्तद्रूपादिभवनमेव भाव इति स्वमतं व्यवस्थाप्य वस्तुसङ्क्रान्तिप्रतिषेधेनोत्पत्त्यभाव इति वचनं श्रोतुमपि, अवश्यं हि तैः केनापि प्रकारेण भवितव्यं, अत एव, तत्र च तयोरत्यन्तभवनस्य व्यावर्तितत्वाद्भावरूपेण भवनाभावात् परिशेषादुत्पादविनाशेनैवैषां भवनमव्यावृत्तम्, तव्यावर्त्तने ह्यभावता तेषां स्यात् खपुष्पवत्, उत्पादविनाशरूपं भवनं त्वयापि ननु तैर्यथानुभूयते स एव भाव इत्युक्तम्। ननु तैर्भूयतेऽनुत्पादादित्वेनैवेति, न तर्हि तैर्भूयते, अकालत्वेऽकालत्वात्, त्वदुक्तिवदुत्पादाद्यनभ्युपगमादकालत्वम्, उत्पादविनाशावेव हि वस्तूनां भवनबीजम्, रूपादय इव तन्त्वादिभवनवीजम्, तदभावे तदभावात् तद्भावे तद्भावात्, इतरथा ह्यनुत्पादविनाशत्वादपर्यायत्वानिर्मूलत्वान स्यात्, वन्ध्यापुत्रवत्। अपि च नानित्यसामान्यमात्रेण वस्तुप्रतिपक्षनित्यसंस्पर्शसम्बन्धिना सन्तुष्यामः, किं तर्हि? प्रतिपक्षविनिर्मुक्तमेवानित्यत्वं वस्तुनः, तानि रूपादीनि क्षणिकानीत्यवधार्यताम्, यो हि भाव
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy