________________
३४०
द्वादशारनयचक्रे
न्धनस्याग्निना सहान्यत्वम्, यद्यप्यनेरिन्धनेन सहान्यत्वेऽनिन्धनत्वे सत्यरूपत्वादप्रवृत्तेरसत्त्वं सम्भाव्यते तथाप्यदोषत्वेऽस्ति न्यायः..... इन्धनाग्यन्यत्वात् हुतवहवत् दृष्टत्वात् दृष्टा हि लोके इन्धनमाहरति काष्ठमाहरतीति, अत्रोच्यते तद्विषय एवैष उपचारोऽग्नित्वपरिणतिकालसिद्धयथार्थेन्धनत्वं मुख्यमपेक्ष्य, तदन्यत्वे च स नैव स्यात्, मुख्येन्धनाभावात्, अत एव तु तदपरिणतावपीन्धनत्वस्योपचारः सिद्धयति, गौणस्य मुख्यमूलत्वात् सिंहमाणवकवत्, चित्रकरादिवद्वा ___'त्रि इन्धी दीप्ता विति ननु स्मरन्त्यभियुक्ता वैयाकरणा। दीपन इत्यग्निमिन्धः, पूर्वोक्ताच्च तद्वृत्तित्वात्स्वात्मवन्नान्यत्वम्, अदह्यमानं हीन्धनमेव न भवति, कारकाणामेव कारकत्वादित्यादिव्याख्यातत्वात्।
काष्ठशब्दव्यवहारेऽप्यग्निकाष्ठयोरन्यत्वं व्याहन्यते, यदाऽयमग्निः ततोऽन्यो नास्ति सेन्धनात्, ननु यदैव काष्ठमनग्नि दृष्टं तदा तेन विना दृष्टत्वादन्यत्वसिद्धिरिति, अत्र ब्रूमः-अथाभेदवृत्तिरन्यत्वे न प्राप्नोति, अदीप्यमानाकाशेन्धनत्वाप्राप्तिवत्, कस्मान्न काष्ठमग्निः दीप्यमानावस्थायामिवाव्यक्ताग्नित्वावस्थायाम्? अग्निः काष्ठमेव, काष्ठमग्निरेव वा स्यात्, प्राग्वत् पवाद्वाऽनन्यत्वात्। ___ यदि काष्ठं कथमनग्निः काशनाद्दीपनादङ्गनात्, काष्ठमनग्नि तदिति स्ववचनविरोधः, इन्धनमनग्निरित्यपि, काश दीप्ताविति कर्तृवाचिनि थन्प्रत्यये काष्ठमिति रूपसिद्धेरशेषविरोधः, किं दारुण्यपि शक्यमित्थं भावयितुम्? को हि नाम शक्यं न