SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ नवमोऽरः नियमभङ्गनयः ३३९ परस्परासङ्कीर्णरूपः केनचित् कदाचिदसम्बध्यमानत्वात्, असमानत्वादवक्तव्य एव, सम्बद्धो ह्यर्थः सामान्येनोच्यत इति, एवमग्रीन्धनयोरपि। __अथ मा भूवनेते दोषा इत्यग्नीन्धनयोरन्यत्वमभ्युपगम्यते चेत् तेन तर्खग्नेरिन्धनात् पृथग्भूतं रूपमाख्येयम्, निर्दिष्टे हि पृथग्भूते रूपेऽन्यत्वं सिद्धयेत्, शक्यञ्च प्रतिपत्तुमयमस्मादन्य इति, यथाऽन्येषामन्येभ्यः, त्वया न शक्यतेऽनेरिन्धनात् पृथग्भूतं तत्त्वं दर्शयितुम्, न ह्यन्यदन्यसाधारणं रूपं भवति, तस्माच्छक्यते च ततः पृथग्भूतेन तत्त्वेन निर्देष्टुम्, न तन्धनात् पृथग्भूतमसाधारणमनेरूपं शक्यं वक्तुम्। ___सामान्यविशेषैकत्वनानात्वाभ्यां त्वत्प्रदर्शितपृथिवीघटपटादि -निर्देशवदत्रापि स्यादिति चेदुच्यते न मम किश्चित् सामान्यविशेषैकत्वनानात्वाभ्यां व्यवस्थितमस्ति, त्वन्मतानुवृत्त्या प्रतिपादनार्थं संवृत्त्या पृथिवीघटपटवदित्युदाहियते, मन्मतेन तु सामान्यविशेषकत्वान्यत्वानवस्थिततत्त्वघटपटसंवृत्तितुल्यसंवृत्तिवनाग्रीन्धने निद्दिश्येते, तस्मादनिरूप्योऽसनापयेताऽग्निः, अनिन्धनत्वे सत्यरूपत्वात् खपुष्पवत्, घटपटादिष्वप्येतत्साधनं योज्यमिति। ___अथोच्यते यदेतत् ज्वाला देशेऽग्ने रूपमिति, तद्वा कुतोऽ. निन्धनम्? अग्नित्वपरिणतत्वेन पुद्गलानामाकाशदेशेऽवस्थानाज्ज्वालाधृतेः, वैद्युतस्याप्युदकेन्धनत्वान्नानैकान्तिकत्वम्, यदि स्यादनिन्धनोऽग्निर्निरवशेषदग्धेन्धनोऽपि भवेदग्नित्वाज्ज्वालावत्, अथोच्येत तावन्नाहं ब्रवीम्यग्नेरिन्धनेन सहान्यत्वम्, किन्त्वि
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy