SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रे सूक्ष्मावस्थत्वेन चाग्नेः दीप्तिविशेषावस्थाप्राप्तिः सामान्यविशेषाद्यवस्थयोरन्यत्वे सिद्धे स्यात्, तदपि तु चिन्त्यमेव, सिद्धश्वेद्भेदः कथमग्नीन्धनयोरेकत्वमुच्यते, अथोच्येत नाहं ब्रवीम्यग्नेरिन्धनेन सहैकत्वम्, किन्त्विन्धनस्याग्निना सह यद्यप्यग्नेस्न्धिनेन सहैकत्वेऽप्रवृत्तेरसत्त्वं सम्भाव्यते तथापि अदोषत्वेऽस्ति न्यायः तद्यथा – आदिधक्षदिन्धनान्येकत्वात् दृष्टत्वात्, दृष्टा हीन्धनेऽनुपजातानिके प्रागव्यक्तस्याग्नेः पश्चाद्व्यक्तिः, उत्तराधरयोररण्योर्निर्मथनेन, सहभावश्च द्विष्ठ इति प्रागयुत्पत्तेः सत एवाग्नेर्व्यक्तिवदनावपीन्धनस्य सत्त्वमेवेति । - ३३८ एतदेव त्वं पृच्छयसे - अथ भेदप्रवृत्तिः कथम् ? कस्मान्नेन्धनं अव्यक्तत्वेन्धनाग्नित्वाभ्यामरण्यवस्थायामिव ज्वालावस्थायामग्निः ? तत्रेन्धनमग्निरेव स्यात्, दहनैकत्वात्, अन्तवत्, अन्ते वाऽग्निरिन्धनं एव स्यात्, इन्धनैकत्वात् प्राग्वदिति, विकल्पाच्चैकत्वव्याघातः, एकत्वे कुतोऽयं विशेषः, इदं न सहेदं सहेति, अद्वैतवादिनामिव, एकत्वे मथनक्रियाधारकरणाद्यनुपपत्तेश्व, दृष्टश्वोपकारकव्यापारभेदव्यवहारः । अथापि कथञ्चिदभ्युपगम्याप्यग्नीन्धनेकत्वं यदेकत्वेनाभिमतं तदेकमिति न वक्तव्यमेकत्वात्, एकदेवदत्तहस्ताद्यनेकत्ववत्, इस्तोऽप्येक एवेति न वक्तव्योऽङ्गुल्याद्यनेकत्वात् अङ्गुलिरपि पर्वादिबहुत्वात् पर्वापि त्वगादिपर्वावयवस्कन्धबहुत्वात् स्कन्धोऽपि परमाणुबहुत्वात्, अणो रूपाद्यनेकत्वात्, रूपादेः प्रतिक्षणमन्यत्वात् प्रतिक्षणैकस्याप्यनन्तानेकत्वात्, सोऽप्यनेकः
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy