SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ranist: नियमभङ्गनयः ३३७ सत्याश्च तथानियतप्रवृत्तौ जीवो नारकः संसारी मुक्त इत्यादिवत् पृथिवी घट इत्यन्वयप्राधान्यमेवैषितव्यम्, विशेषस्तु घटः पृथिवीमनुवर्त्तते, लोके प्रधानं ह्यनुवर्त्यते, गुणस्त्वनुवर्तते नीलोत्पलवत्, सदापि विशेषानुवृत्तेरुक्तवन्नेतिचेन्न, विशेषाभावात् इति पूर्वनयेषु बहुधा भावितत्वान्न विशेषैकान्तपक्षः सामान्यं शक्नोत् - त्यन्तं निवर्त्तयितुम्, नापि सामान्यैकान्तपक्षो विशेषपक्षमतस्तौ न क्षमौ? वक्ष्यमाणमवचनीयं वस्तु प्रतिपत्तव्यम्, नाप्यभावनिरन्वयं न भाव एव, नाविशेषम्, न विशेषोपसर्जनम्, न विशेष एव, नोभयो - पसर्जनं नोभयप्रधानम्, सर्वविकल्पेष्वणुभावापत्तिदोषर्शनात्, अवचनीय भावविशेषकारणकार्यैकानेकप्रधानोप सर्जनादिविकल्पं अवक्तव्यतत्त्वं वस्तु भवति, एवं हि भवनमग्नीन्धनवत् तद्विकल्पानुपपत्तेः । यथा नैकत्वमग्नेरिन्धनेन सह घटते, यदि स्यादेकत्वम्, दग्धेन्धनवदग्निर्न प्रवर्त्तेत, अनिन्धनप्रवृत्तेश्वाभावतैवाग्नेः, 'अस्तिभवतिविद्यतिपद्यतिवर्त्ततयः सन्निपातषष्ठाः सत्तार्था:' इति वचनादप्रवृत्त्यसत्त्वार्थत्वात्, न प्रवर्त्तते, एकत्वाद्दग्धेन्धनवत् । यथेन्धनमग्निना सहकत्वेऽप्यनुपजाताग्निकं प्रवर्त्तमानं दृष्टम् तथेन्धनेन सहैकत्वे प्रवर्त्तितुमर्हत्यग्निः सूक्ष्मावस्थ इति चेत् को वा ब्रवीत्यग्निरहितावस्थायामिन्धनत्वम्, तदपेक्षत्वादिन्धनत्वस्य, दाते दीप्यत इतीन्धनमग्नित्वपरिणतावेव 'त्रि इन्धी दीप्ता' विति स्मृतेः दह्यमानमिन्धनं भवति नानिध्यमानं, कारकाणामेव कारकत्वात् ।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy