SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३३६ द्वादशारनयचक्रे भवनस्य पृथग्भावेनाभवनात् सलिलनगरयोरसत्त्वं दृष्टं तथा सामान्योपसर्जनतायां विशेषस्य, अथोच्येत त्वया शीतादिजीवादिविशेषाभावात्तयोः स्यादसत्त्वम्, नावश्यं विशेषे घटादौ पृथिवीविशेषैर्भाव्यम्, यदि स्युर्विशेषे विशेषा अविशेष एव स्याद्विशेषः सामान्यमेव विशेषवत्त्वात्, सद्व्यत्वपृथिव्यादिसामान्यवदिति। __ अपि च वयमप्येतदेव बमोऽविशेष एव स्यादिति यदि तथा भवनेन विशेषेण विना भवेदन्वयो विशेष एव निःसामान्यः स च नास्ति खपुष्पवत्, नापि सामान्यमेव निर्विशेषम् तथा तथा वस्तुनोऽभवनात्, मृगतृष्णिकाऽन्वाकृतजलविशेषापि किं शीतादिभेदा न भवति? न भावाभावादेव, यथा वाऽसौ विशेषभावाभावात् नास्ति, तथा घटादिः विशेषोऽन्वयभावाभावान्नास्ति, यदि विशेष एव प्रधानं स्यात् सलिलभावानन्वितमिव घटायपि मृगतृष्णिका कल्पमसत् स्यात् निरुपाख्यत्वात्, उपाख्या हि भवनप्राणिका, इदं तदिति सोपाख्येयेति, ततो. न किश्चित् स्यात्, पृथिव्यादि सामान्येनानुपष्टन्धत्वात्, खपुष्पवत्। ___ तथा कस्माद्धटपटादिविशिष्टवृत्त्येव उदकज्वलनानिलाकाशादिना पृथिव्यादि न व्यज्यते? अत्यन्तमन्यस्य पृथिवीद्रव्यस्य वैलक्षण्याद्वा सर्वद्रव्यगणव्यतिरेकेण निरन्वयो निरुपाख्यः कश्चिदेवार्थः कस्मान स्यात्? अत एव च मिथ्यादर्शनादि प्रत्ययजीवकर्मसम्बन्धसन्तत्याख्यान्वयाभावात् पुण्यपापकर्मानुपपत्तेः संसारानुपपत्तिः, मोक्षानुपपत्तिः, तत्प्रतिपक्षपरिणामविशेषानुपपत्तेः, पुरुषकारानुपपत्तिश्च, अनियततथाप्रवृत्तेः।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy